________________
श्राद्धविधिप्रकरणम्
तूररववरिअभुवणो, सरभसनच्चंतचारुतरुणिगणो । सामंतमंतिसहिओ, वच्चइ नवमंदिरम्मि रहो ॥ रायारहत्थपडिमं, पट्टंसुअकणयभूसणाईहिं । सयमेव अच्चिउं कारवेइ विविहारं नाई ॥ तत्थ गमिऊण रयणि, नीहरिडं सीहबारबाहिंमि । ठाइ एवं चिअ धयतंडवम्मि पडमंडवम्मि रहो ॥ तत्थ पहाए राया, रहजिणपडिमा विरइडं पूअं । चउविहसंघसमक्खं, सयमेवारत्तिअं कुणइ || तत्तो नयरंमि रहो, परिसक्कड़ कुंजरेहिं जुत्तेहिं । ठाणे ठाणे पडमंडवेसु विउलेसु चिट्ठतो ॥ इत्यादि । अथ तीर्थयात्रास्वरूपम् । तत्र तीर्थानि श्रीशत्रुञ्जय श्रीरैवतादीनि । तथा तीर्थकृज्जन्मदीक्षाज्ञाननिर्वाणविहारभूमयोऽपि प्रभूतभव्यसत्वशुभभावसंपादकत्वेन भवाम्भोनिधितारणात् तीर्थान्युच्यन्ते । तेषु सद्दर्शनविशुद्धिप्रभावनाद्यर्थं विधिवद्यात्रागमनं तीर्थयात्रा । तत्रायं विधिः
प्रथमं प्रतिपद्यते यात्रावधिकाहारसचित्तपरिहारभूशयनब्रह्मव्रतादिगाढाभिग्रहान् । पर्यङ्किकावर्याऽश्व-पल्यङ्कादिसमग्रसामग्रीसद्भावेऽपि यात्रिकस्य प्रौढ श्रावकस्यापि शक्तौ पदचरणाद्यौचित्यम् । यदवोचाम
एकाहारी दर्शनधारी यात्रासु भूशयनकारी । सच्चित्तपरिहारी पदचारी ब्रह्मचारी च । लौकिकैरप्युक्तंयानमर्द्धफलं हन्ति तुरीयांसमुपानहौ । तृतीयांशमवपनं सर्वं हन्ति प्रतिग्रहः ॥
पञ्चमः
प्रकाशः
४४५