SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः २४५ स्वकशक्त्यानुरूपं हि प्रकुर्यात् कार्यमार्यधीः । नो चेदसिद्धिह्रीहासहीला श्रीबलहानयः ।। अन्यैरपि-को देशः कानि मित्राणि कः कालः कौ व्ययागमौ । कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ लघूत्थानान्यविघ्नानि सम्भवत्साधनानि च । कथयन्ति पुरः सिद्धिं कारणान्येव कर्मणाम् ॥ उद्भवन्ती विना यत्नमभवन्ती च यत्नतः । लक्ष्मीरेव समाख्याति विशेषं पुण्यपापयोः ॥ वाणिज्ये व्यवहारशुद्धिश्चतुर्धा, द्रव्य-क्षेत्र-काल- भावभेदात् । तत्र द्रव्यतः पञ्चदशकर्मादानादिनिदानं भाण्डं सर्वात्मना त्याज्यम् । यतः धर्मबाधकरं यच्च यच्च स्यादयशस्करम् । भूरिलाभमपि ग्राह्यं पण्यं पुण्यार्थिभिर्न तत् ॥ निष्पन्नवस्त्रसूत्रनाणकस्वर्णरूप्यादि पण्यं प्रायो निर्दोषम् । वाणिज्ये च यथा यथा स्वल्प आरम्भः स्यात्तथा तथा यतनीयम् । दुर्भिक्षादावनिर्वाहे तु यदि बह्वारम्भं खरकर्माद्यपि करोति, तदाऽनिच्छुः स्वं निन्दन् सशूकतयैव करोति । यदुक्तमागमोक्तभाव श्रावकलक्षणे वज्जइ तिव्वारंभं कुणइ अकामो अनिव्वहंतो उ । थुणइ निरारंभजणं, दयालुओ सव्वजीवे ॥ धन्ना हु महामुणिणो, मणसावि करंति जे न परपीडं । आरंभपापविरिया, भुंजंति तिकोडिपरिसुद्धं ॥ श्राद्धविधि प्रकरणम्
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy