________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
बोधिदुष्प्रापतादिदोषः । यदुक्तमोघनिर्युक्तौ साधुमाश्रित्य
छक्कायदयावंतो वि संजओ दुल्लहं कुणइ बोहिं । आहारे नीहारे, दुगुछिए पिण्डगहणे अ॥ (गा० ४४१) न भिक्षया कस्यचिल्लक्ष्मीसुखादिसम्पत्तिः । यत:लक्ष्मीर्वसति वाणिज्ये किंचिदस्ति च कर्षणे । अस्ति नास्ति च सेवायां भिक्षायां न कदाचन ॥ उदरभरणादिनिर्वाहमात्रं तु भिक्षया भवतीत्येषाप्याजीविकोपायतया प्रोक्ता ७/ मनुस्मृतौ चतुर्थाध्याये त्वेवमुक्तंऋताऽमृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा । सत्यानृतेन चैवापि न श्ववृत्त्या कदाचन ॥ ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् । मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥ सत्यानृतं तु वाणिज्यं तेन चैवापि जीवति । सेवा श्ववृत्तिराख्याता तस्मात्ता परिवर्जयेत् ॥ एषु च वणिजां वाणिज्यमेव मुख्यवृत्त्याऽर्थार्जनोपायः । पठ्यतेऽपिमहुमहणस्सयवत्थे न चेव कमलायरे सिरी वसइ । किंतु पुरिसाण ववसायसायरे तीइ सुहठाणं ॥ वाणिज्यमपि स्वसहायनीवीबलस्वभाग्योदयदेशकालाद्यनुरूपमेव कुर्याद्, अन्यथा सहसा त्रुट्याद्यापत्तेः । उक्तं चास्माभिः
२४४