SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ प्रथम: प्रकाशः अदृष्टमपरीक्षितं च पण्यं न स्वीकार्यम् । समुदितं शङ्कास्पदं च समुदितैरेव ग्राह्यं न त्वेकाकिना, विषमपाते तथैव श्राद्धविधि| साहाय्यकादिभावात् । उक्तं प्रकरणम् क्रयाणकेष्वदृष्टेषु न सत्यङ्कारमर्पयेत् । दद्याच्च बहुभिः सार्द्धमिच्छेलक्ष्मी वणिग् यदि ॥ क्षेत्रतः स्वचक्रपरचक्रमान्द्यव्यसनाद्युपद्रवरहिते धर्मसामग्रीसहिते च क्षेत्रे व्यवहार्य, न त्वन्यत्र बहुलाभेऽपि । कालतोऽष्टाह्निकात्रयपर्वतिथ्यादिकं वक्ष्यमाणं वर्षादिकालविरुद्धं च त्याज्यम् । भावतोऽनेके भेदाः । तद्यथा-क्षत्रियव्यापारिनृपाद्यैः सह व्यवहारः स्वल्पोऽपि न प्रायो गुणाय । स्वहस्तदत्तवित्तयाचनेऽपि येभ्यो भीयते, तैः सह 4 शुभोदर्कः कथं नाम स्वल्पोऽपि व्यवहारः ? । तदाह व्यापारिभिश्च विप्रैश्च सायुधैश्च वणिग्वरः । श्रियमिच्छन्न कुर्वीत व्यवहारं कदाचन ॥ उद्धारके च विरोधकारकैः कैरपि सह न व्यवहार्यम् । यतःसङ्ग्रहेऽर्थोऽपि जायेत प्रस्तावे तस्य विक्रयात् । उद्धारे नोचितः सोऽपि वैरविग्रहकारिणि । नटे विटे च वेश्यायां द्यूतकारे विशेषतः । उद्धारके न दातव्यं मूलनाशो भविष्यति ॥ कलान्तरव्यवहारोऽपि समधिकग्रहणकादानादिनैवोचितः, अन्यथा तन्मार्गणादिहेतुकक्लेशविरोधधर्महानिधरणाद्यनेका २४६
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy