SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ शिशुपालवधम् विधायेति ॥ यज्वानो विधिनेष्ट वातः । 'यज्वा तु विधिनेष्टवान्' इत्यमरः । 'सुयजोः-' (३।२।१०३) इति यजिधातोङ्वनिप् । तेषां प्रियो हरिः प्रसेदुषः प्रसनस्य । सदेः क्वसुः इत्युक्तम् । तस्य मुनेरपिचिति पूजाम् । 'पूजा नमस्याऽपचितिः' इत्यमरः । विधाय विशेषेण मनोवाक्कायकर्मभिस्तत्परतया कृत्वा प्रकाममत्यर्थमप्रीयत प्रीतोऽभूत् । प्रीयतेर्देवादिकाकर्तरि लङ् । मुनिपूजायाः प्रीति हेतुत्वेऽर्थान्तरं न्यस्यति-महानुभा वा महात्मान आर्यान् पूज्यान् परिचर्यया मुहुर्ग्रहीतुं वशीकर्तुम् । 'अहोऽलिटि दीर्घः (७।२।३७ ) इतीटो दीर्घः । नितान्तमथिनोऽभिलाषवन्तो हि भवन्ति । अर्थनमर्थोऽभिलापः स एपामस्तीति मत्वर्थ इनिर्न तु णिनिः । कृद्वतेस्तद्धितवृत्तिबलीयसी' इति भाष्यात् ॥ १७ ॥ अन्वयः--यज्वनां प्रियः प्रसेदुषः तस्य अपचितिं विधाय प्रकामम् अप्रीयत् । हि महानुभावाः आर्यान् परिचर्यया मुहुः ग्रहीतुम् नितान्तम् अर्थिनः (भवन्ति)॥१७॥ हिन्दी अनुवाद--शास्त्रोक्त विधिवत् यज्ञकर्ताओं के प्रिय (श्रीकृष्ण भगवान् ) प्रसन्न हुए नारद मुनि की पूजाकर अत्यन्त प्रसन्न हुए। क्योंकि महात्मा लोग पूज्य जनों को सेवा द्वारा अपने वश में करने के लिए विशेष इच्छुक रहते हैं ॥ १७ ॥ प्रसङ्ग--नारद मुनि ने सकल तीर्थों से संगहीत जल से श्रीकृष्ण का अभिषेक किया, और भगवान् श्रीकृष्ण ने उसे ग्रहण किया। अशेषतीर्थोपहृता कमण्डलोनिधाय पाणावृषिणाभ्युदीरिताः। अघौघविध्वंसविधौ पटीयसीनतेन मूर्ना हरिरग्रहीदपः ॥ १८ ॥ अशेषेति ॥ अशेषेभ्यस्तीर्थेभ्य उपहृता आहृतास्तथा पाणी निधाय । कमण्डलोरुदकपात्रादुद्धृत्य पाणी निधायैत्यर्थः । क्रियान्तराक्षिप्तक्रियापेक्षया कमण्डलोरपादानत्वम् । 'अस्त्री कमण्डलुः कुण्डी' इत्यमरः। ऋषिणाभ्युदीरिता आक्षिप्ता अत एवाघौघानां पापसमूहानां विध्वंसविधी विनाशकरणे पटीयसीः समर्थतराः। पटुशब्दादीयसुनि 'उगितश्च' (४।१।६) इति ङीप् । अपो जलानि हरिनंतेन मूर्नाऽग्रहीत्स्वीकृतवान् । ग्रहेर्लुङ् ॥ १८ ॥ ___ अन्वयः--अशेषतीर्थोपहृताः ऋषिणा कमण्डलोः पाणौ निधाय अभ्युदीरिताः; अद्यौघविध्वंसविधौ पटीयसीः अपः हरिः नतेन मूर्ना अग्रहीत् ॥ १८ ॥ हिन्दी अनुवाद--समस्त तीर्थों से संगृहीत, नारद मुनि के द्वारा कमण्डलु से (निकाल कर ) हाथ में रखकर अभिमंत्रित किए गये तथा पाप-समूह को नष्ट करने में अत्यधिक समर्थ जल को श्रीकृष्ण मे नतमस्तक से ग्रहण किया ॥ १८ ॥ प्रसङ्ग--जब श्यामवर्ण श्रीकृष्ण नारद मुनि की आज्ञा से सुवर्ण सिंहासन पर बैठे।
SR No.009569
Book TitleShishupal vadha Mahakavyam
Original Sutra AuthorN/A
AuthorGajanan Shastri Musalgavkar
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages231
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy