SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः १०७ समय उसपर आक्रमण करना आदि, दोनों में एक रूपता नहीं लायी जा सकती, क्योंकि ) प्रकाश और अन्धकार की एक साथ स्थिति कहाँ हो सकती है ? ।। ६२ ।। विशेष- इस विषय में कामन्दक ने कहा है— "प्रायेण सन्तो व्यसने रिपूणां यातव्यमित्येव समादिशन्ति ।” प्रायः विवेकी पुरुष व्यसन को प्राप्त हुए पुरुषपर आक्रमण करने को कहते हैं ॥ मनु कहते हैं— " तदा यायाद्विगृह्यैव व्यसने चोरिथते रिपोः ।" ( शत्रु विपद्ग्रस्त होनेपर आक्रमण करना चाहिये । ) कौटिल्य कहते हैं— “व्यसनी यातव्यः, अनपाश्रयो दुर्बलाश्रयो वोच्छेदनोयः” व्यसनी शत्रु राजापर आक्रमण कर देना चाहिए। आश्रयहीन अथवा दुर्बल शत्रु · राजापर भी आक्रमण कर देना चाहिए | प्रसङ्ग - प्रस्तुत श्लोक में बलराम जी कर्तव्य का निर्देश देते हैं--- तहि नः किमिदानीं कार्यमत आह इन्द्रप्रस्थगमस्तावत्कारि मा सन्तु चेदयः । आस्माकदन्तिसान्निध्याद्वामनीभूतभूरुहः ॥ ६३॥ इन्द्रप्रस्थेति । इन्द्रप्रस्थस्य पार्थनगरस्य गमो गमनम् । 'ग्रहवृदृनिश्विगमश्र्व' ( ३।३।५८ ) इत्यप्रत्ययः । तावदिदानीं मा कारि तावत् । न क्रियतामेवेत्यर्थः । 'यावत्तावत्परिच्छेदे कात्स्न्ये मानावधारणे' इति विश्वः । कृञः कर्मणि लुङ् । 'माङि लुङ्' (३।३।१७५) इत्याशीरर्थे । 'न माङ्योगे ' ( ६|४|७४ ) इत्यट्प्रतिषेधः । किन्तु चेदयश्चेदिदेशाः अस्माकमिमे आस्माका: । ' युष्मदस्मदोरन्यतरस्यां खव' ( ४ | ३ | १ ) इति विकल्पादण्प्रत्ययः । ' तस्मिन्नणि च युष्माकास्माको ' ( ४।३।२ ) इत्यस्माकादेशः । सन्निधिरेव सान्निध्यम् । स्वार्थे ष्यञ्प्रत्ययः । आस्माकानां दन्तिनां सान्निध्याद्वामनीभूताः शाखाभङ्गात्खर्वीभूता भूरुहो वृक्षा येषां ते तथोक्ताः सन्तु । चेदियत्रैव क्रियतामित्यर्थः । सा च प्रस्तुता प्रस्तुतेनैव स्वकार्येण गम्यते इति पर्यायोक्तालङ्कारः । 'कारणं गम्यते यत्र प्रस्तुतात्कार्य वर्णनात् । प्रस्तुतत्वेन सम्बन्धात्पर्यायोक्तः स उच्यते ' ॥ इति लक्षणात् ॥ ६३ ॥ अन्वयः -- ( हे कृष्ण ! ) इन्द्रप्रस्थगमः मा कारि तावत् । चेदयः आस्माकदन्ति-सान्निध्यात्वामनीभूतभूरुहः सन्तु ।। ६३ ।
SR No.009569
Book TitleShishupal vadha Mahakavyam
Original Sutra AuthorN/A
AuthorGajanan Shastri Musalgavkar
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages231
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy