SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ शिशुपालवधम् विदग्धेति ॥ मानिनाऽहङ्कारिणा अनेन रावणेन विदग्धलीलाः । चतुरविलासिन्य इत्यर्थः । तासामुचिताश्च ता दन्तपत्रिकाश्च कर्णभूषणानि । 'विलासिनीविभ्रमदन्त. पत्रिका' इति साधीयान् पाठः । अन्यथा विप्रकृष्टार्थप्रतीतिकत्वेन कष्टाख्यार्थदोषापत्तेः। 'कष्टं तदर्थावगमो दूरायत्तो भवेत्' इति लक्षणात् । विलासिनीनां या विभ्रमार्थानि यानि दन्तमयपत्राणि । विभ्रमदन्तशमयोः षष्ठीसमासपर्यवसानात्तादर्यलाभः । तासां विधित्सया विधातुमिच्छया। विपूर्वाद्दधातेः 'सनि मीमा(७।४।५४ ) इत्यादिना अच इम् । 'सः सि' इति तकारः । 'अत्र लोपोऽभ्यासस्य' (७५४१५८ ) इत्यभ्यासलोपः । ततः 'स्त्रियाम' (४।१०२) इत्यनुवृत्ती 'अप्रत्ययात्' (२।३।१०२) इत्यकारप्रत्यये टाप् । नूनं निश्चित जातु कदाचिदपि । 'कदानिज्जातु' इत्यमरः। उद्धृतमुत्याटितं विनायकस्य गणेशस्येदं वनायकमेकं विषाणं दन्तः । 'विषाणं पशुश्रङ्ग स्यात्क्रीडाद्विरददन्तयोः' इति विश्वः । अद्यारि पुनर्न प्ररोहति न प्रादुर्भवति । प्रपूर्वात् 'रुह प्रादुर्भावे इत्यस्माल्लट् । किमन्यदकार्य मस्येति भावः । एतदन्यथा कथं गजाननस्पकदन्तत्वमुत्प्रेक्ष्यते नूनमिति ॥ ६॥ __ अन्वयः-मानिना अनेन विदग्धलीलोचितदन्तपत्रिका निधिरपणा जातु उद्धृतम् एक वैनायकं विपाणम् अद्यापि पुनः न प्ररोहति नूनम् ॥ ६ ॥ हिन्दी मनुषाद--अहंकारी रावण द्वारा, चतुर विलासिनियों के योग्य कर्णाभूषण निर्मित करने की इच्छा से कदाचित् उखाया गया गणेशजी का एक दाँत आज भी नहीं उत्पन्न होता है । ( हो रहा है) यह निश्चित है ।। ६० ॥ (मानी इस रावण ने एक समय चतुरविलासिनियों के योग्य हाथी दांत का कर्णभूषण बनाने की इच्छा से विनायकका एक दाँत उखाद डाला, जो आजतक पुनः उत्पन्न नहीं हुआ और वे सदा के लिये एक दन्त विनायक के नाम से प्रसिद्ध हो गये ॥६०॥) विशेष-पुराणों में गणेश जी का एक दन्तस्व प्रसिद्ध होने से कवि माघ ने उक्त कल्पना की है। प्रसन-प्रस्तुत श्लोक में कविमाघ वायु द्वारा स्वीकृत रावण की अधीनता का वर्णन करते हैं। निशान्तनारीपरिधानधूननस्फुटागसाऽप्यूरुषु लोलचक्षुषः ।। प्रियेण तस्यानपराधयाधिताः प्रभअनेना' नुचकम्पिरे सुराः ॥ ६१ ।। निशान्तेति ॥ निशान्तं गृहम । 'निशान्तं गृहशान्तयोः' इति विश्वः । तत्र या नार्यः । शुद्धान्तस्त्रिय-इत्यर्थः । तासां परिधानान्यन्तरीयाणि । 'अन्तरीयोपसंव्यानपरिधानान्यधोंऽशुके' इत्यमरः । तेषां धूननं चालनम् । धूनो ण्यन्ताल्ल्युट् । 'धूञ् १. प्रकम्पनेना।
SR No.009569
Book TitleShishupal vadha Mahakavyam
Original Sutra AuthorN/A
AuthorGajanan Shastri Musalgavkar
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages231
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy