________________
प्रथमः सर्गः प्रसङ्ग-नारद जी श्रीकृष्ण को कहते हैं कि-पुराविद कपिल आदि आप को सांख्योक्त मूल प्रकृति से पृथक् और उदासीन आदि मानते हैं।
इदानीं सांख्यदर्शनेन भगवतो निःक्रियत्वमाहउदासितारं निगृहीतमानसैहीतमध्यात्मशा कथञ्चन । बहिर्विकारं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुषं पुराविदः ॥ ३३ ॥
ननु प्रकृतिविविक्तपुरुषसाक्षाकारान्मोक्षो नास्मत्साक्षात्कारादित्याशङ्कय सोऽपि त्वमेवेत्याह__उदासितारमिति ॥ पुराविदः पूर्वज्ञाः कपिलादयस्त्वां निगृहीतमानसरन्तनिबद्धचित्तर्योगिभिः । आत्मनि अधि इत्यध्यात्मम् । विभक्त्यर्थेऽव्ययीभावः 'अनश्च' (५।४।१०८१) समासान्तष्टच् । अध्यात्म या दृक् ज्ञानं तयाध्यात्मदृशा प्रत्यग्दृष्टया कथञ्चन गृहीतं साक्षात्कृतम् । केन रूपेण गृहीतमित्यत आह-उदासितारमुदासीनम् । प्रकृती स्वार्थप्रवृत्तायामपि स्वयमप्राकृतत्वादस्पृष्टमित्यर्थः । आसेस्तृन् । विकारेभ्यो बहिः वहिबिकारन् । महदादिभ्यः पृथग्भूतमित्यर्थः । 'अपपरिबहिरञ्चवः पञ्चम्या' (२।१।१२) इत्यव्ययीभावः । किञ्च प्रकृतेस्त्रगुण्यात्मनो मूलकारणात्पृथग्भिन्नम् । 'प्रकृतिः पञ्चभूतेषु प्रधाने मूलकारणे' इति यादवः । पुराभवं पुरातनमनादिम् । 'सायंचिरम्-( ४।३।२३ ) इत्यादिना ट्युप्रत्ययः । पुरुषं पुरुषपदवाच्यं विज्ञानघनं विदुर्विदन्ति । 'विदो लटो वा' ( ३।४।८३ ) इति झेरुसादेशः। यथाहुः
'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ।। (सां. का. ३) इति 'अजामेकां लोहितशुक्लकृष्णाम्' इत्यादिश्रुतिश्च । सोऽपि त्वमेव, 'तत्त्वमसि' इत्यादिवाक्यरैक्यश्रवणात् । तस्मात्त्वमेव साक्षात्कर गीय इति सुष्ठुक्तमिति भावः ।। ३३ ॥
अन्वयः-पुराविदः त्वां निगृहीतमानसः अध्यात्मदृशा कथञ्चन गृहीतम् उदासितारं वहिर्विकारं प्रकृतेः पृथक् पुरातनं पुरुषं विदुः ।। ३३ ॥
हिन्दी अनुवाद-प्राचीन इतिहास को जाननेवाले ( कपिल आदि) आपको, चित्त की वृत्तियों को रोक कर समाधि द्वारा अन्तर्मन से किसी तरह देखे गए, उदालीन, विकार से बहिर्भूत, मूल प्रकृति से पृथक्, अनादि और परमपुरुष मानते हैं ॥ ३३॥
विशेष-इस श्लोक में सांख्यमतानुसार श्रीकृष्ण को मुक्ति के लिए साक्षात्कारकरने योग्य माना गया है।