SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् । ४७ रवया= भवता, प्रहृतम् आक्रमणं, तु= विशेषेऽर्थे समुच्चये घा, रुद्रौजसा= शंकरबलेन, अवेहीति शेषः। समा०-अन्याश्च ताः पयस्विन्य इत्यन्यपयस्विन्यस्तालामन्यपयस्विनीनाम् । न ऊनेत्यनूना तामनूनाम । रुद्रस्यौज इति रुद्रौजस्तेन रुद्रौजसा । कोशः-'ओजो दीतिप्रकाशयोः । अवष्टम्भे बले धातुतेजसी'त्यनेकार्थः । ता०-अन्यासां द्रोग्ध्रीणां गर्वा प्रदानान्महर्षेः क्रोधशान्तिनं भवितुमर्हति यत इयं कामधेनुकल्पा, अस्यां यदाक्रमणं कृतं तत्त शङ्करतेजसा, न तु स्वसामर्थेनेति त्वं विद्धि। इन्दुः-और महर्षि वसिष्ठजी के क्रोध की शान्ति दूसरी दूध देने वाली गायों के देने से किस प्रकार हो सकती है ' 'अर्थात् कभी नहीं हो सकती है क्योंकिइसे कामधेनु से कम नहीं समझना चाहिये 'अर्थात् तुल्य ही समझना चाहिये' और इसके ऊपर जो तुम्हारा आक्रमण हुभा है, उसे भी शङ्कर भगवान् की सामर्थ्य से ही समझना चाहिये न कि अपनी सामर्थ्य से ॥ ५४॥ तर्हि किं चिकीर्षितमित्याहसेय स्वदेहापेणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः । न पारणा स्याद्विहता तवैवं भवेदलुमश्च मुनेः क्रियाऽर्थः ।। ५५ ॥ सजी०-सेयमिति । सेयं गौर्मया निष्क्रीयते प्रत्याहियतेऽनेन परिगृहीतमिति निष्क्रयः प्रतिशीर्षकम् । 'एरच' इत्यच्प्रत्ययः । स्वदेहार्पणमेव निष्क्रयस्तेन भवत्तस्त्वत्तः। पञ्चम्यास्तसिल। मोचयितुं न्याय्या न्यायादनपेता । युक्तत्यर्थः । 'धर्मपथ्यर्थन्यायादनपेते' इत्यनेन यत्प्रत्ययः । एवं सति तव पारणा भोजनं विहता न स्यात्, मुनेः क्रिया होमादिः स एवार्थः प्रयोजनम् । स चालुप्तो भवेत् । स्वप्राणम्ययेनापि स्वामिगुरुधनं संरचयमिति भावः। __ अ०-सा, इयं, मया, स्वदेहार्पणनिष्क्रयेण, भवत्तः, मोचयितुं, न्याय्या, एवं, 'सति' तव, पारणा, विहता, न, स्याद्, मुनेः, क्रियाऽर्थः च, अलुप्तः, भवेत् । वा०-तयाऽनया न्याय्यया 'भूयते' पारणया विहतया न भूयेत क्रियाऽर्थेनचालुप्तेन भूयेत। __ सुधा-सा= पूर्वोक्का, इयम् = एषा, धेनुः । मया=दिलीपेन, स्वदेहार्पणनिष्क्रयेणआत्मशरीरत्यागमूल्येन, स्वशरीरार्पणरूपनिष्क्रयेणेति भावः। भवत्तः= त्वत्तः, मोचयितुं,-हापयितुं, न्याय्या-न्याययुक्ता, एवम् = इत्थं 'सति' तबम्भवतः, पारणाव्रतान्तभोजनं, विहता=नष्टा, न= नहि, स्याद्-भवेद्, मुनेः = वसिष्ठस्य, क्रियाऽर्थः कृत्यप्रयोजनं, च-अन्वाचयेऽर्थे । भलुप्तः अनष्टः, भवेत् स्यात् ।। - समा०-स्वस्य देहः स्वदेहः तस्यार्पणं, घदेहार्पणं, तदेव निष्कया स्वदेहार्पणनिष्क्रयस्तेन तथोकेन । न लुप्तोऽलुप्तः। क्रिपैवार्थः क्रियाऽर्थः। . कोशः–'एवं प्रकारे स्यादङ्गीकारेऽवधारणे । अनुप्रश्ने परकृतावुपमापृच्छयोरपि' इति मेदिनी।
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy