SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ रघुवंश महाकाव्यम्- [ द्वितीय: ता० - सेयं मया स्वशरीरदान विनिमयेन भवतो मोचयितुं योग्याऽस्ति, एवं कृते सति तव चिरकालाद बुभुक्षितस्य व्रतान्तभोजनं नष्टं न भवेत्, तथा वसिष्ठ - महर्षेहमादिक्रिया रूपं प्रयोजनमपि लुप्तं न स्यात् । इन्दुः- कामधेनु के तुल्य इस नन्दिनी को मेरा अपने शरीरार्पण रूप निष्क्रय के द्वारा आप से छुड़ाना न्यायसङ्गत है, ऐसा करने पर आपके व्रत के अन्त का भोजन (पारणा ) भी नष्ट नहीं होगा और वसिष्ठ महर्षि का होमादि रूप प्रयोजनभी नष्ट नहीं होगा ॥ ५५ ॥ ४८ अत्र भवानेव प्रमाणमित्याह - भवान पीदं परवानवैति महान् हि यत्नस्तव देवदारौ । स्थां नियोक्तर्न हि शक्य मत्रे विनाश्य रक्ष्यं स्वयमक्षतेन ॥ ५६ ॥ सञ्जी० - भवानीति । परवान्स्वामिपरतन्त्रो भवानपि । 'परतन्त्रः पराधीनः परवान्नाथवानपि' इत्यमरः । इदं वाच्यमाणमवैति । भवताऽनुभूयत एवेत्यर्थः । ' शेषे प्रथमः' इति प्रथमपुरुषः । किमित्यत आह- हि यस्माद्धेतोः । 'हि हेताववधारणे' इत्यमरः । तव देवदारौ विषये महान् यत्नः । महता यत्नेन रचयत इत्यर्थः । इदं शब्दोक्तमर्थं दर्शयति- स्थातुमिति । रच्यं वस्तु विनाश्य विनाशं गमयित्वा स्वयते नात्रणेन, नियुक्तेनेति शेषः । नियोक्तुः स्वामिनोऽग्रे स्थातुं शक्यं न हि । अ०- परवान्, भवान् अपि इदम्, अवैति, हि तव, देवदारौ, महान् चत्नः, रच्यं, विनाश्य, अक्षतेन नियोक्तुः, अग्रे, 'स्थातुं शक्यं न हि । वा० – परवता=भवताऽवेयते महता यत्नेन 'भूयते' नहि स्ववमक्षतः शक्नुयात् । सुधा०-- परवान् = पराधीनः भवान् =त्वम् अपि =समुच्चयेऽर्थे, इदम् = एतद्, वच्यमाणमिति यावद् । अवैति = जानाति, हि = यतः, तव = भवतः, देवदारौ=देव, दारुवृचे, महान् = अतिशयः, यतः = प्रयासः, अस्तीति शेषः । रच्यं =पाल्यं, वस्तु । विनाश्य = अभावं गमयित्वा स्वयम् = आत्मना, नियुक्तेनेति शेषः । अक्षतेन: व्रणरहितेन, नियोक्तुः = आदेष्टुः, अग्रे = पुरतः, स्थातुं = वस्तुम्, शक्यं = शक्तुमईं नहि = = न । = समा०—परः स्वाम्यस्यास्तीति परवान् । नियुनक्कीति नियोक्ता तस्य नियोक्तुः । न चतोऽक्षतस्तेनाक्षतेन । वा० - 'स्वयमात्मना' इत्यमरः । । ता० - किन्न निजभर्त्तुरधीनस्थो भवानपि जानात्येव यतो भवतोऽप्यस्य देवदारुतरोः रक्षणे महान् प्रयत्नो लच्यतेऽत एव स्वयमेव चतरहितेन सदा रक्षणाह वस्तु विनाश्य स्वामिनोऽग्रे स्थातुं नोचितम् । इन्दुः- पराधीन होते हुये आप भी इस ( आगे कही जाने वाली ) बात को जानते हैं, क्योंकि आपका देवदारु के विषय में 'रक्षा करने के लिये' बहुत भारी प्रयत्न है । 'अत एव' रक्षा करने के योग्य वस्तु का नाश करके स्वयम् विना नष्ट
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy