SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ४६ रघुवंश महाकाव्यम् [ द्वितीयः प्रसिद्धौ तद्विपरीतवृत्तेः = पूर्वोक्त क्षत्त्रशब्द विरुह्वर्त्तनस्य, राज्येन = राजभावेन, किम् = किम्प्रयोजनम्, न किमपि प्रयोजनमस्तीति भावः । उपक्रोशमलीमसै= निन्दाम लिनैः, प्राणैः =असुभिः, वा= अथवा, किम् = प्रयोजनम्, न किमपीति भावः । समा०-- तस्य विपरीता तद्विपरीता तद्विपरीता वृत्तिर्यस्य स द्विपरीतवृत्ति स्तस्य तद्विपरीतवृत्तेः । मलाः सन्ध्येषामिति मलीमसाः, उपक्रोशेन मलीमसा उपक्रोशमलीमसास्तैस्तथोकैः । कोश:-'किम् कुत्सायां वितर्के च निषेधप्रश्नयोरपि' इति मेदिनी । ता:०- - लोके विपत्तिमग्नस्य रक्षक एव यथार्थः तस्त्रियः अतः स्वधर्माचरणरहि तस्य तस्य जीवनं राज्यादिकं च धिक्कारभाजनतया व्यर्थं भवति । इन्दुः- नत जो क्षत्रियवर्ण का वाचक क्षत्र शब्द है सो 'तत् अर्थात् नाश से जो बचावे वह क्षत्रिय कहलाता है' इस व्युत्पत्ति से संसार में 'पङ्कज' की तरह योगरूढि से प्रसिद्ध है, अतः उस क्षत्त्र शब्द से विपरीत व्यापार करने वा अर्थात् नाश से नहीं रक्षा करने वाले पुरुष के राज्य और अपकीर्ति से मलिन हुए प्राण (जीवन) ये दोनों व्यर्थ हैं ॥ ५३ ॥ 'अथैकधेनोः' (२-४९) इत्यत्रोत्तरमाह - कथं नु शक्योऽनुनयो महर्षेर्विश्राणनाच्चान्यपयस्विनीनाम् । इमामनूनां सुरभेरवेहि रुद्रौजसा तु प्रहृतं त्वयाऽस्याम् ॥ ५४ ॥ सञ्जी० - कथमिति । अनुनयः क्रोधापनयः । चकारो वाकारार्थः । महर्षेरनुनयो चाsन्यासां पयस्विनीनां दोग्ध्रीणां गवां विश्राणनाद्दानात्, 'त्यागो विहापितं दानमुत्सर्जन विसर्जने । विश्राणनं वितरणम्' इत्यमरः । कथं नु शक्यः । न शक्य -इत्यर्थः । अत्र हेतुमाह - इमां गां सुरभेः कामधेनोः 'पञ्चमी विभक्ते' इति पञ्चमी । अनूनामन्यूनामवेहि जानीहि । तर्हि कथमस्याः परिभवो भूयादित्याह - रुद्रौजसेति । अस्यां गवि त्वया कर्त्रा प्रहृतं तु प्रहारस्तु । नपुंसके भावे क्तः । रुद्रौजसेश्वरसामर्थ्येन न तु स्वयमित्यर्थः । 'सप्तम्यधिकरणे च' इति सप्तमी । अ० - महर्षेः अनुनयः, 'च' अन्यपयस्विनीनां, विश्राणनात्, कथं, नु, शक्यः, इमां सुरभेः, अनूनाम, अवेहि, अस्यां त्वया, प्रहृतं, तु, रुद्रौजसा । वा०- -अनुनयेन शक्येन 'भूपतेः' इयमनूना 'स्वया' अवेयताम्, प्रहृतेन, 'भभूयत' । सुवा० - महर्षेः = वसिष्ठस्य | अनुनयः = सान्त्वनं, चन्वा, अन्यपयस्विनीनाम् = इतरक्षीरवतीनाम्, गवाम् । विश्राणनात् =दानात्, कथं= केन प्रकारेण, नु = चिकपार्थे, शक्यः = शक्तुमर्हः, शक्य इत्यर्थः । इमां = नन्दिनीम्, सुरभेः = कामधेनोः, अनूनाम् = अन्यानां तत्कल्पाम् । भवेहि जानीहि त्वमिति शेषः । अस्याम् = एतस्यां,
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy