SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ४२ रघुवंशमहाकाव्यम्- [द्वितीयःइन्दुः-हे राजन् ! यदि तुम्हारी प्राणियों पर दया है, तो तुम्हारे मर जाने पर केवल यही एक गौ कल्याण से युक्त हो सकती है। हे प्रजाओं के स्वामी महाराज दिलीप ! आप जीते हुए निश्चय ही पिता के समान प्रजाओं की विधनों से निरन्तर रक्षा कर सकते हैं ॥४८॥ न धर्मलोपादियं प्रवृत्तिः किन्तु गुरुभयादित्यत आहअथैकधेनोरपराधचण्डाद् गुरोः कृशानुप्रतिमा विभेषि । शक्योऽस्य मन्युभवता विनेतुं गाः कोटिशः स्पर्शयता घटोनीः ॥४६॥ सजी०-अथेति । अथ पक्षान्तरे, अथवा। एक्व धेनुर्यस्य तस्मात् । अयं कोपकारणोपन्यास इति ज्ञेयम्, अत एवापराधे गवोपेक्षालक्षणे सति चण्डादतिकोपनात, 'चण्डस्त्वत्यन्तकोपनः' इत्यमरः। अत एव कृशानुः प्रतिमोपमा यस्य तस्मादग्निकल्पाद् गुरोर्विभेषि। इति काकु: 'भीत्रार्थानां भयहेतुः' इत्यपादानात्पञ्चमी । अल्पवित्तस्य धनहानिरतिदुःसहेति भावः । अस्य गुरोर्मन्युः क्रोधः 'मन्यु. देन्ये क्रती अधि'इत्यमरः। घटा इवोधांसि यासां ता धटोनीः । 'ऊघसोऽनङ् इत्यनादेशः 'बहुवीहेरूधसो डीप' इति डीप। कोटिशो गाः स्पर्शयता प्रतिपादयता। 'विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्' इत्यमरः। भवता विनेतुमपनेतुं शक्यः । अ०-अथ, एकधेनोः, अपराधचण्डाद, कृशानुप्रतिमात्, गुरोः विभेषि, 'त्वम् अस्य, मन्युः, घटोनीः कोटिशः, गाः, स्पर्शयता भवता विनेतुं शक्यः। वा०-त्वया भीयते अस्य मन्युं गाः स्पर्शयन् भवान् विनेतुं शक्नुयात् । सुधा-अथ = पक्षान्तरे, एकधेनो केवलसुरभेः, 'अत एव' इति शेषः । अपराधचण्डात् = आगोऽत्यन्तकोपनात्, अत एव' कृशानुपतिमात्=पावकप्रतिमानात्, गुरोः= वसिष्ठात्, विभेषित्रस्यसि, अस्य = एतस्य मन्युः क्रोधः, घटोनी कलशापीनवतीः, कोटशः =कोटिसङ्ख्यकाः, गाः-सौरभेयीः, स्पर्शयता = ददता, भवता स्वया, विनेतुं दूरीकर्तुम् । शक्यः = क्षमः, अस्तीति शेषः । ___ तमा०–एकैव धेनुर्यस्य स एकधेनुस्तस्मादेकधेनोः अपराधे चण्डोऽपराधचण्डस्तस्मादपराधचण्डात् । कृशानुः प्रतिमा यस्य स कृशानुप्रतिमस्तस्मात्कृशानुप्रति मात् । घटा इवोधांसि यासां ता घटोन्यस्ता घटोनीः। __ को०-'आगोऽपराधो मन्तुश्च' इति । 'प्रतिमानं प्रतिविम्वं प्रतिमा प्रतियातना प्रतिच्छाया। प्रतिकृतिरर्चा प्रतिनिधिः' इति चामरः । ___ ता०-हे राजन् यदि नन्दिनीनाशरूपापराधेनातिक्रुद्धस्य गुरोर्भयं करोपि, तहि पयस्विनीः कोटिशो गाः ददत् त्वं तस्य क्रोधशान्ति कत्त क्षमोऽस्यतो धेनुरक्षाऽर्थमनुनयस्ते वृथैव ।। इन्दुः-अथवा हे राजन् ! एक ही है धेनु जिसके अत एव गौ की रक्षा न करने रूप अपराध होने से अत्यन्त क्रुद्ध हुए, अग्नि के तुल्य अपने गुरु वसिष्ठजी से यदि
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy