SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् । ४३ तुम डरते हो तो, उनके क्रोध को घड़े के समान बड़े बड़े स्तनों वाली करोड़ों गायों को देते हुए दूर करने में समर्थ हो ॥ ४९ ॥ तद्रक्ष कल्याणपरम्पराणां भोक्तारमूर्जस्वलमात्सदेहम् । महीतलस्पर्शनमात्रमिन्नमृद्धं हि राज्यं पदमैन्द्रमाहुः ॥४०॥ सजी०-तद्रक्षेति । तत्तस्मात्कल्याणपरम्पराणां भोक्तारम् । कर्मणि षष्ठी। ऊजों चलमस्यास्तीत्यूर्जस्वलम् । 'ज्योत्स्नातमिस्त्रेत्यादिना वलच्प्रत्ययान्तो निपातः। आत्मदेहं रक्ष । ननु गामुपेचयात्मदेहरक्षणे स्वर्गहानिः स्यात् । नेत्याहमहीतलेति, ऋद्धं समृद्धं राज्यं महीतलस्पर्शनमात्रेण भूतलसम्बन्धमात्रेण भिन्नमैन्द्रमिन्द्रसम्बन्धि पदं स्थानमाहुः । स्वर्गान्न भिधत इत्यर्थ। __ अ०-तत्, कल्याणपरम्पराणाम्, भोक्तारम् ऊर्जस्वलम्, आत्मदेह, रक्ष, हि, ऋद्धं, राज्यं, महीतलस्पर्शनमात्रभिन्नम्, ऐन्द्रम्, पदम् आहुः। वा०-भोकोर्जस्वल आत्मदेहस्त्वया रक्ष्यतां राज्यमन्द्रं पदमुच्यते । सुधा०-तत् तस्मात्कारणात् , कल्याणपरम्पराणाम् भद्रपरिपाटीनाम्, भोक्तारम् = अनुभवितारम्, उर्जस्वलं = बलवन्तम्, आत्मदेहं स्वशरीरं, रक्ष%D पालय, हि= यतः, ऋद्धं सुसमृद्धं, राज्य-राजभावं राजकर्म वा । महीतलस्पर्शन. मात्रभिन्नम् = पृथ्वीतलस्पशेनैव पृथक्कृतम्, ऐन्द्रम् = इन्द्रसन्बन्धि पद-स्थानम्, आहुः = अवन्ति, विद्वांस इति शेषः । समा०--कल्याणानां परम्पराः कल्याणपरम्परास्तासां तथोक्तानाम् । ऊर्जा वलमस्यास्तीत्यूर्जस्वलस्तमूर्जस्वलम् । आत्मनो देहः आत्मदेहस्तमात्मदेहम् । मद्यास्तलं महीतलं तस्य स्पर्शनं महीतलस्पर्शनम् तदेव प्रमाणमस्येति महीतलस्पर्शनमात्र, तेन भिन्नम् महीतलस्पर्शनमात्रभिन्नं तत्तथोक्तम् । ____ कोशः-वःश्रेयसं शिवं भद्र कल्याणं मङ्गलं शुभम्' इत्यमरः । 'ऊर्जस्तु कार्तिकोत्साहवलेषु प्राणनेऽपि च' इति मेदिनी। 'ऋद्धं सम्पन्नधान्ये च सुसमृद्धौ च वाच्यवत्' इति मेदिनी। ता०-हे राजन् ! त्वमुत्तरोत्तरसुखानां भोक्तारं स्वशरीरं रक्ष, यतो विद्वांसः स्वर्गात्पृथग्भूतं भवदीयं समृद्धं राज्यमिन्द्रराज्यं कथयन्ति । इन्दुः-इस कारण हे राजन् ! तुम उत्तरोत्तर सुखों का भोग करनेवाले अस्थन्त वल से युक्त अपने शरीर की रक्षा करो, क्योंकि विद्वान् लोग समृद्धिशाली राज्य को केवल पृथ्वीतल का सम्बन्ध होने से अलग हुआ इन्द्रसम्बन्धी स्थान (स्वर्ग) कहते हैं ॥५०॥ एतावदुक्त्वा विरते सृगेन्द्रे प्रतिस्वनेनास्य गुहागतेन । शिलोच्चयोऽपि क्षितिपालमुच्चैःप्रीत्या तमेवार्थमभाषतेष ।। ५१ ।। सजी०-एतावदिति । मृगेन्द्र एतावदुक्त्वा विरते सति गुहागतेनास्य सिंहस्या
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy