SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् । ४१ उत्स्रष्टुम्, इच्छन् = कामयमानः, त्वं भवान्, विचारमूढ़ा = कार्याकार्यविचारे मूर्खः, मे= मम, प्रतिभासि= प्रतिभालसे। समा०-एकमातपनं यस्मिस्तदेकातपत्रम् । प्रभोर्भावः प्रभुत्वम् । इच्छतीतीस्छन् । विचारे मूढो विचारमूढः। को०-'एके मुख्यान्यकेवलाः इति' 'छन्न त्वातपत्रम्' इति चामरः । ता०-हे राजन् ! एकस्य धेनोहेंतोश्चक्रवर्त्तिवनवयौवनप्रभृतिसुखं त्यक्तुं यत्वः मिच्छसि तन्मे नितान्तमूढ एव प्रतिभालसे। ____ इन्दुः-एकच्छत्र, संसार की प्रभुता, नवीन युवावस्था और यह सुन्दर शरीर इन सब बहुतों को थोड़े से नन्दिनीरूप फल के लाभ के कारण से छोड़ने की इच्छा करते हुए तुम क्या करना चाहिये, क्या नहीं करना चाहिये' इसके विचार फरने में मुझे मूर्ख मालूम पड़ते हो ॥ ४७ ॥ भूतानुकम्पा तव चेदियं गौरेका भवेत्स्वस्तिमती त्वदन्ते । जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ ! पितेव पासि ॥ ४८ ।। सजी०-भूतानुकम्पेति । तब भूतेष्वनुकम्पा कृपा चेत् । 'कृपा दयाऽनुकम्पा स्यात्' इत्यमरः । कृपैव वर्तते चेदित्यर्थः। तर्हि त्वदन्ते तव नाशे सतीयमेका गौः । स्वस्ति क्षेममस्या अस्तीति स्वस्तिमती भवेत् जीवेदित्यर्थः। 'स्वस्त्याशीः क्षेमपुण्यादौ' इत्यमरः। हे प्रजानाथ ! जीवन् पुनः पितेव प्रजा उपप्लवेभ्यः विध्नेभ्यः शश्वत्सदा। 'पुनःसदार्थयोः शश्वत्' इत्यमरः । पासि रक्षसि । स्वप्राणव्ययेनैकधेनुरक्षणाद्वरं जीवितेनैव शश्वदखिलजगत्त्राणमित्यर्थः। ___ अ०-तव भूतानुकम्पा चेत् 'तर्हि' त्वदन्ते 'सति' इयम्, एका, गौः, स्वस्तिमती, भवेत्, प्रजानाथ ! जीवन्, पुनः, पिता, इव, प्रजाः, उपल्लवेभ्यः, शश्वत्, पासि । वा०-तव भूतानुकम्पा चेद् 'भूयते तर्हि' अनयैकया गवा स्वस्तिमत्या भूयेत 'स्वया' जीवता पुनः पित्रेव प्रजाः पायन्ते । सुधा०-तव-भवतः, भूतानुकम्पा-प्राणिदया, चेद्, 'भस्तीति तर्हि' इति शेषः । स्वदन्ते = भवत्ताशे, सतीति शेषः। इयम् = एषा, एका केवला, गौः धेनुः, स्वस्तिमती = क्षेमवती, भवेत् = विद्येत, प्रजानाथ ! =जनेश्वर ! जीवन् = श्वसन्, पुनः= अवधारणेऽर्थे, पिताजनकः, इव, प्रजाः = जनान, पितृपक्ष-पुत्रान् । उपप्लचेभ्यः = उत्पातेभ्यः, चौरादिभयेभ्य इति भावः। शश्वत्-अनारतम्, पासिनायसे । समा०-भूतेष्वनुकम्पा भूतानुकम्पा। तवान्त इति त्वदन्तस्तल्मिस्त्वदन्ते । जीवतीति जीवन् । प्रजानां नाथ इति प्रजानाथस्तत्सम्बुद्धौ हे प्रजानाथ !। ___को०-'उपप्लवः सैंहिकेये विप्लवोत्पातयोरपि' इति मेदिनी। ता०-हे राजन् ! त्वयि जीवति सति सकललोकस्थजीवपालनं भविष्यति स्वन्नाशे तु धेनोरेव रक्षणं भविष्यत्यतः स्वशरीररक्षणं ते श्रेष्टं न तु धेनुरक्षणम् ।
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy