________________
11 T: 11
नैपधमहाकाव्यम्
मल्लिनाथकृत 'जीवातु' टीका सहिन सान्वय-सटिप्पण-'चन्द्रिका' हिन्दीव्याख्योपेतम्
प्रथमः सर्गः
निपीय यस्य क्षितिरक्षिणः कथां तथाद्रियन्ते न बुधास्सुधामपि । नलस्सितच्छत्रित कीर्तिमण्डलस्स राशिरासीन्महसां महोज्ज्वलः ॥ १ ॥ जीवातु - अथ तत्रभवान् श्रीहर्षकविः 'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥" इत्यालङ्कारिकवचनप्रामाण्यात् काव्यस्यानेकश्रेयःसाधनत्वाच्च 'काव्यालापांश्च वर्जयेदि 'ति तन्निषेधस्यासत्काव्यविषयतां पश्यन् नैषधाख्यं महाकाव्यं चिकीर्षुश्चिकीर्षितार्थाविघ्नपरिसमाप्तिहेतो: 'आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखमि' त्याशी राद्यन्यतमस्य प्रबन्धमुखलक्षणत्वात् कथानायकस्य राज्ञो नलस्य इतिवृत्तरूपं मङ्गलं वस्तु निर्दिशति - निपीयेति । यस्य क्षितिरक्षिण। क्षमापालकस्य नलस्य कथाम् उपाख्यानम् । निपीय नितरामास्वाद्य पीङ् स्वादे क्त्वो ल्यबादेशः न तु पिबते: 'न त्यपी' ति प्रतिषेधादीत्वासम्भवात् । बुधास्तज्ज्ञाः सुराश्च 'ज्ञातृचान्द्रिसुरा बुधा' इति क्षीरस्वामी । सुधामपि तथा यथेयं कथा तद्वदित्यर्थः, नाद्रियन्ते, सुधा मपेक्ष्य बहु मन्यन्ते इति यावत् । सितच्छतित्रतं सितच्छत्र कृतं सितातपत्रीकृतमित्यर्थः, तत् कृताविति ण्यन्तात् कर्मणि क्तः । कीर्तिमण्डलं येन सः । महसां तेजसां राशि: रविरिवेति भावः । महैः उत्सर्वः उज्ज्वलः दीप्यमानो नित्यमहोत्सवशालीत्यर्थः । 'महः उद्धव उत्सव' इत्यमरः । स नलः आसीत् । अत्र नले महसां