SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 11 T: 11 नैषध महाकाव्य म् मल्लिनाथकृत 'जीवातु' टीकासहितसान्वय-सटिप्पण 'चन्द्रिका' हिन्दीव्याख्योपेतम् - द्वितीयः सर्गः अधिगत्य जगत्यधीश्वरादथ मुक्ति पुरुषोत्तमात्ततः । वचसामपि गोचरो न यः स तमानन्दमविन्दत द्विजः ॥ १ ॥ जीवातु - अधिगत्येति । अथ मोचनानन्तरं स द्विज: पक्षी विप्रश्च, 'दन्तविप्राण्डजा द्विजा' इत्यमरः । जगत्यघीश्वरात् क्ष्मापतेः भुवनपतेश्च 'जगती भुवने क्ष्मायामिति विश्वः । पुरुषोत्तमात् पुरुषश्रेष्ठात् विष्णोश्च ततः तस्मात् प्रकृतान्नलात् अन्यत्र प्रसिद्धाच्च मुक्ति मोचनं निर्वाणञ्च अधिगत्य प्राप्य आनन्दो वचसामपि न गोचरः वक्तुमशक्यः, 'यतो वाचो निवर्तन्त' इत्यादेरवाङ्मनसगोचरश्च तमानन्दं परमानन्दश्व अविन्दतालभत, विदेर्लाभार्थात् 'कर्त्रभिप्राये क्रियाफल' इत्यात्मनेपदं, 'शे मुचादीनामिति नुमागमः । अत्राभिघायाः प्रकृतार्थ मात्र नियन्त्रणादुभयश्लेषानुपपत्तेर्भेदान्तरानवकाशाल्लक्षणायाश्च मुख्यार्थबाधमन्तरेणासम्भवात् ध्वनिरेवायं ब्राह्मणस्य विष्णोर्मोक्षानन्दप्राप्तिलक्षणार्थान्तरप्रतीतेनं श्लेषः प्रकृताप्रकृतोभयगतः । अस्मिन् सर्गे एकशतश्लो पर्यन्तं वियोगिनी वृत्तम् । 'विषमे ससजा गुरुः समे सभरा लोऽथ गुरुवियोगिनी' ति लक्षणादिति संक्षेपः ॥ १ ॥ अन्वयः - अथ सः द्विजः ततः जगत्यधीश्वरात् पुरुषोत्तमात् मुक्तिम् अधिगम्य यः वचसाम् अपि गोचरः न तम् आनन्दम् अविन्दत । हिन्दी -- तदनन्तर जिस प्रकार द्विज ( विप्र ) उस संसार के स्वामी पुरुषोत्तम हरि विष्णु से संसार-मोक्ष पाकर वाणी से भी अवर्णनीय परमानन्द को प्राप्त करता है, उसी प्रकार उस द्विज ( पक्षी हंस ) ने उस संसार के
SR No.009566
Book TitleNaishadhiya Charitam
Original Sutra AuthorHarsh Mahakavi
AuthorSanadhya Shastri
PublisherKrishnadas Academy Varanasi
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy