SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ पृ० पं. विषयाः ९ तीर्थकृत्वस्वभावस्य कादाचित्कत्वं, तस्य तीर्थकरनामकर्मविपाकोदयेनाभि व्यक्तौ "उदए जस्स" इति वचनं प्रमाणमावेदितम् । १० ध्यानस्थे तस्मिन् कुडयादिभ्योऽपि देशनाऽऽविर्भाव इति "तस्मिन् भ्यानस मापन्ने" इति वचनोल्लसितं मतमपाकृतम् , तत्र "कुडथादि निस्सृतानां तु" इति वचनोट्टकनम् । ४९-१४ ११ देशनायाः स्पष्टाक्षरत्वान्यथानुपपत्त्या भगवन्मुखोच्चरितत्वं निगमितम् , प्रतिबन्धकाभावाच्च तत्त्वं, क्लिष्टकल्पनापरिहारचात्र । ५०-२ १२ केवलज्ञानोत्पत्तौ कृतकृत्यस्य भगवतो न तीर्थकरणप्रयोजनमित्याशङ्कानिरासः। ५०-१२ १३ “तीर्थप्रवर्तनफलमिति" "तत्स्वाभाव्यादेवेति" पद्यद्वयं तत्वार्थसूत्रस्य संवादकमुपदर्शितम् । ५०-१६ १४ आचाराङ्गादिवचनस्य तीर्थकरवचनत्वं स्थापितम् । ५०-२० १५ द्रव्यास्तिकपदव्युत्पत्युपदर्शनम् ।। १६ द्रव्यास्तिकनयमन्तव्योपदर्शनम्, तत्र "तिर्यगूर्ध्वप्रचयिनः" इति नयोपदेश वचनसंवादः अशुद्धद्रव्यार्थिकमन्तव्यत्वमस्य । १७ शुद्धद्रव्यार्थिकमन्तव्योपदर्शनं, तत्र सङ्ग्रहनयमूलकवेदान्तिमन्तव्यविषयकत्वमावेदितम् । ५१-१६ १८ पर्यवनयपदव्युत्पत्युपदर्शनम् । ५१-२२ १९ तृतीयस्य गुणार्थिकनयस्यानभिधाने हेतुरुक्तः । ५१-२५ २० व्यतिरिक्तसामान्यविशेषग्राहिणौ नयौ कस्मानोक्ताविति शङ्का निराकृता सामान्यविशेषयोर्द्रव्यपर्यायान्तर्भावयलेन । ५१-२८ २१ द्रव्यरूपोर्ध्वतासामान्ये "पूर्वोत्तराखिलविवर्त्तसमूहवति" इति वचनं प्रमाणतया दर्शितम् , तिर्यग्सामान्यस्य व्यअनपर्यायेऽन्तर्भावः । ५२-६ २२ पर्यायास्तिकनयमन्तव्योपदर्शनम् । ५२-१५ २३ पर्यायास्तिकमते कालायवर्ति न किञ्चद्वस्तु, किन्तु क्षणिकमिति प्रदर्शनम् । ५२-२२ २४ द्रव्याथिकपर्यायार्थिकयुक्तयोऽन्योन्यं तुल्यवदेव परबाधकतयोज्जृम्भन्त इति नैकत्र पक्षपातो युक्तः, किन्तु परस्परसापेक्षद्रव्यपर्यायोभयोपग्रहो युक्त इति निगमितम् । ५२-२४ २५ अत्र “य एव दोषाः किल नित्यवादे" इत्यादि हेमसूरिवचनसंवादो दर्शितः। ५२-२९ २६ 'मूलव्याकरणी' इत्यत्र द्विवचन भाव्यं कथमेकवचनमिति शङ्कापाकरणम् । ५३-१ "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy