SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ वारमानमाह एको यामश्चतुः स्त्रिंशत् पलान्यथाक्षराणिच । भूत्यष्टि माने सज्ञेयो वारभोगो विचक्षणैः ॥८॥ एकोयाम इति । वारभोगोक्तिः कथमौदयिक एव वारः सर्वस्मिन् वासरे विमृश्य इति नाशङ्कय दिनस्वर चक्रादौ-- तिथ्यादौ घटिकाः पञ्च पलानि सप्तविशंतिः । अन्तरोदय-उक्तोऽसौ दिनस्वरस्य सूरिमिः । इत्यादिना नरपतिग्रन्थेप्यन्तरोदयदर्शनात् ॥ ८ ॥ बारचक्रफलमाह-- तद्वारस्य तदगुल्याः स्वरुपेण शुभाशुभे । स्वराशिनाथमैच्यादि ज्योतिः शास्त्रविमर्शनात् ॥ ९ ॥ तद्वारस्येति । योवारस्दवसरेप्राप्तः सचेत् निजराशीशस्तदा तदगुल्यां शुभलक्षणे पूर्णफलं स्वराशीशवैरिणोङ्गुल्यां पादमात्रं साम्येत्वद्ध शुभग्रह दृष्टाङ्गुलिस्थाने पादोन मित्येवमशुभलक्षणेऽपि वाच्यम् । ज्योतिरिति । मैत्रीरवः शुक्रशनीशत्रू इत्यादिकाजातकोक्ता । आदि -शद्वाद्वृष्टिरुच्चनीचत्वेनच ज्योतिः शास्त्रादेव वेधे उच्चस्थे च बलं पूर्णनीचांशस्थे दलं बलमिति नरपतिग्रन्थोक्तत्वादत्रापि तदुच्यते रवेरङ्गुष्ठ मध्यभागस्थानाद्गणनानुक्रमेण तृतीय स्थानं कनिष्टा मूलपर्व तत्रमेशराशित्वात्स एवं उच्चाश्रयाः। एवं चन्द्रास्याङ्गुष्ठमूर्द्धभागातृतीयं ताराद्वितीयं पर्वतत्र वृषत्वादुच्चत्वं तयोः सदाऋजुगतित्वात् मङ्गलस्यवक्रत्वात् पृष्टगत्यातृतीयं पर्वमकरस्थलं तत्र उच्चत्वं बुधस्य स्थानाभावात् स्वगृह एवोच्चत्वं गुरोर्मध्याप्रभागात् नीचावताररूप मकरस्थानं तत्र नीचत्वं शुक्रस्य सूर्यापेक्षाचारात् प्रागमुखत्वेन तर्जन्याद्वितीयभागस्थ सूर्यापेक्षया उच्चं मीनस्थानं तत्रोउच्चत्वं शनेः स्वस्थानात्पृष्ट तृतीय पर्वणिशेषराशिस्तत्र नीचत्वं राहोः स्वस्थानादुच्चं मिथुनमिति उच्चात्सप्तमं निचं निचात्सप्तमुच्चमिति विमृश्यफलं वाच्यम् ॥ ९ ॥ "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy