SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ दिक्षुमायावत्तत्तद्विमृश्यं भचक्राद्वा बालादिस्ववयसि वाच्यमिति जातिदिग् द्रव्यलभ्यालभ्यसमयज्ञानाय फलवत् सत्रं बोध्यम् । तदेवाह बालमिति । चूडामणिशास्त्रकथनं शिष्टसम्मत्यर्थम् ॥ १६ ॥ अथ राशिव्यवस्थामाह--- कस्य पार्श्वेऽथवा ग्रामे कस्मिन्मे लभ्य सम्भवः । इति प्रश्नेऽगुली भागामेषाद्या द्वादशो दिताः ॥१७॥ कस्येति। कस्य देवस्य नरस्य तिरश्चोवेति । सामान्यतो जात्यादिलभ्यालभ्य निर्णयप्रागुक्तेतत्तन्नामराशिना विशेषलभ्यालभ्यज्ञानाय राशिचक्रामदम् । अत्र जन्मराशे मुख्यता किन्तुनामराशेरेव यतश्चाग्रेऽपि वक्ष्यते जागर्तियेन नाम्नेत्यादिस्वरोदयशास्त्रे तस्यैव प्राधान्यात् यदुक्तं श्रीनरपति अन्थे प्रसुप्तो भाष्यते येन येनागच्छति शद्धितः । तस्य नामादिवर्णे या मात्रा मात्रा स्वरः सच ॥ १॥ अत्राद्धे तस्य नामप्रमाणं हि ग्राह्यं स्वरविशारदैः इत्यपिपाठः । बहूनियस्य नामानि नरस्य तु कथञ्च न । तस्य पश्चाद्भवं नाम इत्युक्तमादियामले ॥२॥ यदि नास्ति भवेद्वर्णः संयुक्ताक्षरलक्षणः । ग्राह्यस्तदादिमो वर्णः इत्युक्तं ब्रह्मयामले ॥३॥ अथ राशीनां क्रमनियममाह काश्चन्याः प्रथमे व्यंशे मेषोवृषोद्वितीयके । एवमत्रक्रमे हस्तप्रेक्षा तिथिरुपागता ॥ १८ ॥ काञ्चन्या इति । “घड्निशाबलिनोऽजोक्षयुग्मकन्या धनुर्मुगा" इत्यारम्भसिद्धिवाक्यात् । मेषादि त्रयं रात्रिबलं रात्रिप्रत्यासत्या तारायामेव तम्याः स्वल्पप्रकाशेन सायङ्कालरूपत्वात् तत एव सध्न्या मन्दभुजङ्गमाविति शनिराहोस्तव्यवस्था रात्रावेव वह्वेस्तेजोधिकत्वात् तस्यां अग्नितत्त्वाधिष्ठानेन तद्वाहन मेषस्य औचित्यमपि तेन पश्चिमायां कम्बलबाहूल्यं तथा देवानां "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy