SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ (80) एतदेवाह ततो हस्तं निरक्षेत जानीयाद्येन निश्चितम् । जायते वचने सिद्धिः सिद्धदेवगुराः स्मृते ॥ १६ ॥ इति स्पृष्टम् ॥ १६ ॥ अथ तिथिनक्षत्रचक्रादौ पृच्छोपयोगाय मातृका ध्यानमाहअकार इति मध्येईन् आकाराद्यास्त्रयोदशः । अ अ इत्यङ्गुलीपञ्चदशभागेषु च स्मरेत् ॥ १७ ॥ अकार इति । अकारोऽङ्गुष्ठ शिरोभागे इकारो मध्ये ईकारो मूले उकार शिरसेि ऊकारो मध्ये ऋकारो मूले प्रदेशिन्यामिति । अनेन क्रमेण षोडशविद्यादेवीनां ब्राम्ही प्रमुखसतीनां वा स्मरणार्थं षोडशस्वरन्यासः । अत्रानुस्वारस्य स्वरत्त्वं अनुनासिकस्य स्वरत्ववनाशिकास्थानात् विसर्जनीयस्य स्वरत्वं अनुस्वारस्यैव द्वैरूप्यात्, पूर्व उदात्तः परोऽनुदात्त इति मात्रारूप स्वरधर्माद्वा । चतुर्दशस्वरपक्षे व्यञ्जनत्वमप्यनयोरिति । अत्रानुक्तोऽपि स्वरोपलक्षणाद्वञ्जनन्यासोऽपि स्मरणीयः । तद्यथा कः खः गः इति त्रयमष्ठ शिरो मध्यमूलेषु घ १ च २ छ ३ इति त्रयं तर्जन्यां ज १ झ २ ट ३ इति त्रयं मध्यायां ठ १ ड २ ८ ३ इति वयं सावित्र्यांत १ थ २ द ३ इति त्रयं कनिष्टायां तथैव चिन्त्यं, एवं घकारादि हकारान्तव्यञ्जनानि वामहस्ताङ्गुलि पञ्चदशभागेषु चिन्त्यानि क्षः पुनवम हस्ततले ध्यातव्यम् तत एव सरस्वत्या दक्षिणे करे अक्षमाला प्रसिद्धा अत्र ङ ञणानांग जड़ेष्वन्तर्भावो, नरपति ग्रन्थे तथा वचनात् नमस्कार स्तोत्रे तु पढमदुसरा अरिहंता चउसरा सिद्धसूरि उवज्झाया दुगदुग सरा कमेण णनंदतु मुणीसरा दुसरा इत्यादि ॥ १७ ॥ 66 77 अथ ग्रन्थकृत स्वेष्टध्यानमाह श्रीपार्थो वामहस्तोऽयं फणाः शाखास्तदीयकाः । श्रीनाभेयो दक्षिणच करः शाखाजटास्फुटाः ॥ १८ ॥ " Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy