SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ( २३६ ) ज्ञेयमिति । विद्यारेखास्वरूपाद्वामे फलविज्ञानं वाच्यं संगीत नाट्यकलाद्यं वा । अत्र वामहस्ते ऊर्द्धरेखया चेद्भवति तस्यास्तासां वा फलानि स्त्रीपाणिग्रहणात्परतः स्त्रीसहायाद्वा ॥ ३६ ॥ अत्रद्वादशराश्याद्यं तथावयव चिन्तनम् । प्रागुक्तं तत् स्त्रियाज्ञेयं योगिनां भक्तिकारिणः ॥ ३७ ॥ अत्रेति । अत्र वामकरे द्वादशराशिपञ्चदशतिथि ग्रहस्थान नक्षत्राक्षरव्यवस्थादि । तथा हस्तरूप पुरुषस्यावयवचिन्तनम् । तत्र शुभाशुभादि -लक्षणं स्त्रिया एव ज्ञेयम् । अर्द्धाङ्गवात्तस्या राशिचक्रे लभ्यं वा, अलभ्यं तत्तद्रा शिकस्त्रिया एव इत्यादिबहुलक्ष्यविमर्शो बहुश्रुताद्वेद्यः । योगिनां स्त्रियाभावाद्भक्तिकारक सेवकस्य शुभाशुभ वामहस्तरेखाफलमुन्नेयं प्रकृति योगात् दृश्यते च सेव्यसेवकयोः सुखेऽखेवा कथंचित् सामान्यं छायानुप्रवेशात् ॥ ३७ ॥ वामहस्ते दक्षिणास्थाद्वलवद्भोगलक्षणे | प्रभुत्वयोगातिशयाद्वाच्यं व्रतविडम्बनम् ॥ ३८ ॥ वामहस्तादिति । दक्षिणे भागे रेखादिभोग लक्षणाद्बलवति भोगलक्षणे - वामहस्ते सति । प्रभुत्वं वर्द्धते ततो व्रताद् योगाद् भ्रश्यति भोगाङ्गे भोगलक्षणातिशयात् ॥ ३८ ॥ वेधादिदोषादेखाणां कदाचिदक्षिणे फलम् | विसंवदेनश्वयात्तु फलं वामे हठांगतः || ३९ ॥ वेधादति । वेधे छेदे भेदे विरुद्धलक्षणेन बाधे सति रेखादुष्टास्यात्तेन - दक्षिणे फलविसंवादोऽपि स्याद्वामे तु प्रायो हतरूपान्नविसंवाद इति दक्षिणाद्वामहस्तातिशयः स्पष्टः ॥ ३९ ॥ अथ पुनर्वामे लक्षणातिशयं सूचयन्नाह यस्य कृपाणिकाशस्त्रं वामेभुजदले भवेत् । तस्य स्त्रीनिष्ठुरा दुष्टा क्रोधान्मारयते पतिम् ॥ ४० ॥ "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy