SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ( ११८ ) हस्तरूप स्वकायस्य क्रमादवयवा अमी ॥ शुभाशुभं नृणां चिन्हं घातादिर्येषु लक्ष्यते || १४ || हस्तेति । सर्वोऽपि पुंसः स्त्रिया वादेहः हस्त एव एवदृश्यः तदवयवेषु शुभलक्षणै: शुभमशुभैर्घातपात छेद भङ्गाद्य शुभं विचार्य शिरसि अङ्गुष्ठाग्रभागे चक्रव्यवरूप शुभ लक्षणे राज्यं मुखेङ्गुष्ठमध्यपर्वणि विद्यायशः प्रभृति कण्ठे सुस्वर सौभाग्यादिति जठरे भागे पितृरेखा धनरेखयोर्मध्यरूपे धनधान्य सम्पत्तिः कटिभागे धनरेखायूरेखयोरन्तराले भोगः जीवितरेखायाः प्रारभ्य अङ्गुलीनां मूलं यावत् गुह्यभागे स्त्रीसन्तानादिलभ्यं अङ्गुल्याः प्रथम त्रिभागे स्कन्धेवीर्य भ्रातृलभ्यं बाहुभागे त्रिपुरामध्यपर्वणि स्वजनवणिक् पुत्रादिपरिकरलभ्यं कूपरे मणिबन्धान्ते तृतीयपर्वणि व्यवसायलभ्यम् । ॐवाहनलभ्यं जेधयोर्ग्रामान्तरलभ्यं चरणयोर्दासीदाससेवकादिलभ्यं वाच्यम् । विरुद्धलक्षणेऽशुभं तत्तद्वस्तु हान्यादि ज्ञेयम् । एषु भागेषु तादृग्लक्षणाऽ परिस्फूतौँ शिरः प्रभृतिपञ्चाङ्गुर्लानां पञ्चदश सुभागेषु शुभो रेखादिना शुभ अशुमेतद्भागे बातादिविचार्यम् । तालिका भागत्रयावयवेषु तत्तद्भागस्थरेखाभिरेव शुभाशुभ ज्ञप्तिर्मणिबन्ध करभयोरन्तरे नितम्ब भाग इतीष्टोपदेशान्तस्य शुभाशुभे तत्तलक्षणरेखाभिरिति ॥ ७३ ॥ इति देहचक्रदर्शनम् ॥ अथ देहावयवेषु शुभेऽशुभेवा ज्ञाते भाव चक्रादिना वर्षनिर्णये तत्तद्वर्षस्थानादङ्गुलिपर्वगण नान्मासनिर्णये दिनचक्रं मन्दधियां दुर्बोधमिति सुखावबोधाय विशेषज्ञा न कारणं हस्त चन्द्र चक्रमाह मस्तके त्रयमास्येव कण्ठे भानां त्र्यं त्रयम् । जठरे च त्रयं देयं शेषाङ्गे द्वौ कटौं चभूः ॥ ७४ ॥ मस्तक इति । त्रयं भानां नक्षत्राणां व्यवस्थाप्यं, उक्ताङ्गादन्य स्मिन् शेषाङ्गे द्वेनक्षत्रे देयं कटौ कटिस्थाने भूरित्येक संज्ञा एकनक्षत्र धार्यमित्यर्थः ॥ ७८ ॥ "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy