SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् * दीधितिः * एवंविधैव रीतिरुत्तरत्र सर्वत्र सव्यभिचारलक्षणादावनुसर्त्तव्या इत्यपि केचित् । २४८ गादाधरी तद्विषयविषयकस्य निर्वह्निः पर्वत इति ज्ञानस्य प्रतिबन्धकं यद्वह्निमान् पर्वत इति ज्ञानं तद्विषयतामादायैव वह्निमत्पर्वतादिरूप तत्स्थलीयाश्रयासिद्ध्यादौ लक्षणसमन्वयः । अथ घटवभूतलादिरूपोदासीनपदार्थविषयकसमूहालम्बनात्मक पक्ष * चन्द्रकला # तद्विषयेति । निर्वह्निः पर्वतो वह्निमान् वह्निव्याप्यधूमवांश्चेत्याकारकज्ञानवियविषयकस्येत्यर्थः । लक्षणसमन्वय इति । तथाचोक्तरीत्या विरोधित्वनिर्वचने न कोऽपि दोष इति भावः । यद्यप्युक्तरीत्या लक्षणार्थस्य निर्वचनेऽपि पर्वतो वह्निमान् हृदो वह्निमान् वेत्यादौ सर्वत्र घटाभाववद्भूतलादावुदासीनेऽतिव्याप्तिः हृदो वह्निमान् वह्निव्याप्यधूभवान् घटवच्च भूतलमित्याकारकस समूहालम्बनज्ञानविषयविषयको यो घटवद् भूतलमितिग्रहस्तत्प्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूप रुतावच्छेदकघटाभाववद्भूतलत्वस्य तादृशभूतले सत्त्वात् प्रकृतपक्ष विशेष्यकप्रकृतसाध्यप्रकारकप्रकृतसाध्यव्याप्यहेतुप्रकारकग्रहत्वव्यापकविषयिताशालिबुद्धित्वावच्छिन्न प्रतिवध्यतानिरूपित प्रतिबन्धकतानतिरिक्तवृत्तिस्वावच्छि न्नविषयिताकर्मवच्वविवक्षणे घटवद्भूतलादिविषयिताया हृदादिविशेष्य कव हुन्यादिप्रकारकमहत्वस्य घटव द्भूतलाद्यविषयकासमूहालम्बनज्ञाननिष्ठस्याव्यापकतया तस्यास्तादृशग्रहत्वव्यापकविषयितापदेन धत्तुमशक्यत्वेन घटाभाववद्भूतलादावतिव्याप्तिवारणसम्भवेऽपि निर्वह्निः पर्वतो वह्निमान् इत्यादौ वह्निमत्यर्वतरूपाश्रयाऽसिद्भावव्यातिः, आदार्यज्ञानसामग्रीप्रयोज्याया एव वन्यभाववत्पर्वतविषयिताया निर्वह्निपर्वतविशेष्यकवह्नि प्रकारकग्रहत्वव्यापकतया तस्याश्चाहार्य ज्ञानमात्रनिष्ठत्वेन तदवच्छिन्नप्रतिवध्यत्वाऽप्रसिद्धत्वात् अनादार्यज्ञानीयवह्न्यभाववत्पर्वतविषयिताया वह्निमत्यर्वत निश्चय प्रतिवध्यतावछेदकत्वेऽपि तस्यास्तादृशपक्षविशेष्य कसाध्यादिप्रकारकमहत्याव्यापकतया तत्प्रतिवध्यतावच्छेदकताया अकिञ्चित्करत्वादित्याशंकते अथेति । "Aho Shrutgyanam" तत्र
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy