SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १४८ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् * गादाधरी व्यभिचारत्वादिविशिष्टविषयकत्वावच्छिन्न प्रतिबन्धकतासामान्यावच्छेदकविषयितानिरूपकतावच्छेदकस्य तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकस्याप्रसिद्ध्याऽप्तम्भवात् , व्यभिचारत्वमेयत्वविशिष्टव्यभिचारस्वादेरेव तथाविधविषयितानिरूपकतावच्छेदकत्वात् , तस्य च व्यभिचारस्वाद्यवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वाभावात् । न च स्वावच्छिन्नविषयकत्वावच्छिन्न प्रतिबन्धकतासामान्यावच्छेदक * चन्द्रकला * विरहादन्यस्य तादृशविशेषणत्रयाक्रान्तस्य धर्मस्याऽप्रसिद्धतया सर्वत्र विशिष्टान्तरतावच्छेकधर्मस्याऽप्रसिद्धरित्याशयेन निरुक्तकल्पं दूषयति व्यभिचारत्वादीति । लक्ष्यतावच्छेदकीभूतेत्यादिः। __ अप्रसिद्धिमेव दर्शयति व्यभिचारमयत्वेति । तस्य = व्यभिचारत्वस्य मेयत्वविशिष्टव्यभिचारत्वस्य च । विपरीतव्यभिचारत्वस्य तु व्यभिचारत्वाद्यवच्छिन्नविषयित्वाव्यापकविषयितामृत्यज्ञानीयविषयितानिरूपकतावच्छेदकत्वविरहादिति पूरणीयम् । निरुक्तव्यभिचारघटितबाधेऽव्याप्तिवारणाय द्वितीयनचकल्पमाह स्वावच्छिन्नेति । स्वं लक्ष्यतानवच्छेदकप्रमेयत्वविशिष्टवाधत्व-प्रमेयत्वविशिष्टव्यभिचारत्वादिकम् । तथाच स्वावच्छिन्नविषयकत्वव्यापकप्रकृतानुमितिप्रतिबन्धकतात्वव्यापकविषियतानिरूपकतावच्छेदको यत्किञ्चिद्धर्मःस्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदको यस्य स्वस्य एवं भूतं यत् यत् स्वं तत्तदवच्छिन्नविषयकत्वाभावकूटवत्प्रतीतिविषयतावच्छेदकयद्पावच्छिन्नविषयकनिश्चयत्वव्यापकं प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकत्वं तद्रूपवत्त्वं समुदितलक्षणार्थःपर्यवसितः । भवति हि हृदो वह्निमान्धूमादित्यादौ वह्नयभाववद्ह्रदरूपत्राधे धूमवान्वङ्क्षरित्यादौ च धूमाभावववृत्तित्वविशिष्ट. कलाविलासः * जलबद्धदरूपसत्प्रतिपक्षेऽव्याप्तिः, स्वपदेन निरुक्तसत्प्रतिपक्षतावच्छेदकधर्मस्यापि धर्तुं शक्यत्वात् , एवञ्च प्रथमावच्छेदकताया:स्वरूपसम्बन्धरूपत्वे पूर्ववदेव वह्वयभावविशिष्टहदादावव्याप्तिः, मेयत्वविशिष्टबाधत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकनिरुक्तबाधत्वावच्छिन्नविषयकत्वावच्छिन्न प्रतिबन्धकतासामान्यावच्छेदकस्य पूर्वोक्तयुक्तयाऽप्रसिद्धः । सुतरामेवाव्यापकीभूतविषयिताशून्यत्वमपि उभयत्र निश्चये विवक्षणीयमिति भाव्यम् ।। यद्यपि विशिष्टान्तराऽघटितत्वविवक्षणे बाधत्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं व्यभिचारविशिष्टप्रमेय व्यभिचारत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकञ्च बाधविशिष्टभेयत्वादिकं तदाश्रयाऽविषयकप्रतोत्यप्रसिद्धयैवाऽस "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy