SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ चन्द्रकला - कलाविलासाख्यटीकाद्वयोपेतम् 8 चन्द्रकला अत्र कल्पे विपरीतवाद्यत्वव्यभिचारत्वादिकमादाय यदि सर्वत्र लक्षणसमन्वयः क्रियते तदा बाधविशिष्टव्यभिचारेऽतिव्याप्तिः स्यात्, बाघविशिष्टव्यभिचारत्वावच्छि न्नाऽविषयकप्रतीतिविषयतावच्छेदकं यत् व्यभिचारविशिष्टवाघत्वं तस्य बाधविशिष्ट - व्यभिचारत्वरूपस्वावच्छिन्न विषयकत्वव्यापकानुमितिप्रतिबन्धकतात्वव्यापक विषयिता निरूपकतावच्छेदकतया विशिष्टान्तरतावच्छेदकयद्रूपात्मकत्वेन तदवच्छिन्नाऽविषयकबाघ विशिष्टव्यभिचारे १४७ प्रतीतिविषयतावच्छेदकबाधविशिष्टव्यभिचारत्वरूपस्ववत्त्वस्य सत्वात् । अतो निरुक्तातिव्याप्तिवारणाय विशिष्टान्तरतावच्छेदकात्मकलक्षणघटकयद्रूपे स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य स्वावच्छिन्न विषयकत्वव्यापकानुमितिप्रतिबन्धकतात्वब्यापक विषयितानिरूपकतावच्छेदकत्वस्य च यथा विशेषणत्वं तथास्वावच्छिन्नविषयित्वाऽत्र्यापकीभूतविषयिताशून्यज्ञानीयविषयितानिरूपकतावच्छेदकत्व - मपि तत्र विशेषणं देयम् एवञ्च न बाधविशिष्ट व्यभिचारेऽतिव्याप्तिः, तादृशविशेषणत्रयविशिष्ट विशिष्टान्तरतावच्छेदकरूपस्याऽप्रसिद्धत्वात् । - > यतावच्छेदकत्वस्य, व्यभिचारविशिष्टवाघत्वे बाधविशिष्टव्यभिचारत्वावच्छिन्नाऽविषयकप्रतीतिविषबाघ विशिष्टव्यभिचारत्वावच्छिन्न विषयकत्वव्यापक प्रकृतानुमितिप्रतिबन्धकतात्वव्यापकविषयितानिरूपकतावच्छेदकत्वस्य च सत्त्वेऽपि बाघ विशिष्टब्यभि. चारस्वरूपस्वावच्छिन्न विषयित्वा व्यापकीभूता या व्यभिचार विशिष्टबाधत्वावच्छिन्ना विषयिता तच्छून्यज्ञानीयविषयितानिरूपकतावच्छेदकत्वस्य तत्राऽसत्त्वात् । बाघ विशिष्टव्यभिचारत्वे तादृशव्यभिचारत्वरूपस्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य केवलवाघत्वे व्यभिचारत्वे वा बाधविशिष्टव्यभिचारत्वावच्छिन्नविषयकत्वव्यापकानुमितिप्रतिबन्धकतासामान्यावच्छेदकविषयितानिरूपकतावच्छेदक - त्वस्य च विरहादन्यस्य कस्यापि धर्मस्य यद्रूपपदेनोपादानाऽसम्भवात् । तथा च हृदो धूमवान् वह्नेरित्यादौ सर्वत्र बाघव्यभिचारादावसम्भवः, धूमाभावविशिष्टहृदत्वरूपवाघत्वावच्छिन्न 15 विषयकप्रतीतिविषयतावच्छेदकहृदवृत्तिधूमाभाव त्वरूपविरीतबाधत्वादौ तादृशत्राघत्वावच्छिन्नविषयकत्वव्यापकानुमितिप्रतिबन्धकतात्व * कलाविलासः * त्वोपलक्षितविपयितानिरूपकतावच्छेदकत्वोभयसम्बन्धेन । व्यापकविषयितानिरूपकतावच्छेदकत्वसत्वेऽपि धूमाद्यभावविशिष्टहदत्वाद्यवच्छिन्नविषयित्वाऽव्यापकीभूतहृदवृत्तिधूमाभावत्वावच्छिन्न विषयिताशून्यप्रतीतिविषयतावच्छेदकत्व - "Aho Shrutgyanam" द्वितीयनचकल्पेऽपि श्रवच्छेदकत्वद्वयमनतिरिक्तिवृत्तित्स्वरूपमेव वाच्यमन्यथा द्वितीयावच्छेदकतायाः स्वरूपसम्बन्धरूपत्वे जलव्यापकवह्नयभावसमानाधिकरण
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy