SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ मोहराजपराजयम् । ६१ वामदेव:- - ( सातङ्कं स्वगतं ) ( १ ) नूणं जलधिजत्ताविदत्तं मह पासे गवेसिस्सदि वित्तं देवो । (प्रकाश) देव ! एवं नेदं । ऽङ्कः ] राजा- - तत्कथय कथं नामासौ नामशेषतां जगाम जलराशौ कुबेरः । इति । वामदेवः --- ( मनाक् स्वस्थीभूय ) (२) सुणादु देवो । राजा - अवहितोऽस्मि । वामदेवः - ( ३ ) इदो दाब चउसु महत्तरेनेगमेसु नगरं नासीकडय जलहिजत्ताभिसंधाणेण भरुयच्छवेलाऊँलं गदो कुबेरसिट्टी । राजा -- इत्यपि विभवसंभारे किमर्थमध्यवसितस्तेन भयङ्करे जलधिवर्त्मनि यात्रारम्भः ? । वामदेवः -- ( ४ ) नियभुयज्जियं मए सुपत्तेसु निजोजिच्वं दव्वं ति कदपदित्रेण ववसिदमिदं तेण । राजा - उपपन्नमेतत् । वामदेवः -- (५) तदो वि पंचपंचसयमणूससणाहेहिं पंचपवहणसएहिं पत्तो परकूलं । राजा - अहो ! महेच्छता तस्य । वामदेवः -- (६) अघ जादचउकोडिकणयलाहो नियत्तिदो तदो । राजा- ततस्ततः । ( १ ) नूनं जलधियात्रार्जितं मम पार्श्वे गवेषयिष्यति वित्तं देवः । देव ! एवमेतत् । ( २ ) शृणोतु देवः । ( ३ ) इतस्तावच्चतुर्षु महत्तरनैगमेषु नगरं न्यासीकृत्य जलधियात्राभिसन्धानेन भृगुकच्छवेलाकूलं गतः कुबेरश्रेष्ठी । ( ४ ) निजभुजार्जितं मया सुपात्रेषु नियोजयितव्यं द्रव्यमिति कृतप्रतिज्ञेन व्यवसितमिदं तेन । ( ५ ) ततोऽपि पञ्चपञ्चशतमनुष्यसनाथैः पञ्च प्रवहणशतैः प्राप्तः परकूलम् । ( ६ ) अथ जातचतुष्कोटिकनकलाभो निवृत्तस्ततः । १ B & C रनिगं २ B & C लाउ "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy