SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ऽङ्कः ] मोहराजपराजयम् । राजा - ( तथा कृत्वा सर्वतो विलोक्य च सवाष्पं ) उद्यानं फलसंग्रहेण लवणेनान्नं वपुर्जीवितेनास्यं नासिकयेन्दुना वियदलङ्कारेण काव्यं पुनः । राष्ट्रं भूपतिना सरः कमलिनीषण्डेन हीनं यथा शोच्यामेति दशां हहा ! गृहमपि त्यक्तं तथा स्वामिना ||३४|| वणिजः - देव ! नियुज्यतां पञ्चकुलम्, येन तत्समक्षं गृहनियोगिनः कुबेरस्वामिसर्वस्वमुपनयन्ति । राजा - ( क्षणं स्थित्वा ) भद्राः । किं पञ्चकुलेन ? | यूयमेवात्र प्रमाणम् । वणिजः --- यदाज्ञापयति देवः । ( इति निष्क्रम्य प्रविश्य च ) देव ! स एष कुबेरविभवसंभारः । राजा - (स्वगतं ) दृष्ट्वा विभूतिमेनां संयमिनामपि चलन्ति चेतांसि । किं पुनरभितो विषयैकलालसानां क्षितीशानाम् ? ॥ ३५ ॥ वणिजः -- ( अङ्गुल्या निर्दिश्य ) देव ! निजरम्यतातिशयनिर्मिताशेषजनचमत्कारः । संहृतपापः सोऽयं गृहचैत्योपकरणकलापः ॥ ३६ ॥ इतश्च कनकगिरिसनाभिः शातकुम्भोत्करोऽयं रजतशिखरिबन्धुश्चैष दुर्वर्णराशिः । गगनमणिसपत्नो जात्यरत्नोच्चयोऽसौ द्विरदतुरगवृन्दं तच्च ते दृष्टपूर्वम् ॥ ३७ ॥ राजा - ( सोत्कर्ष ) दूरेऽन्यत्, देवतागृहोपकरणगणस्यैव निरतिशयः कोऽपि रम्यतोदयः । अथात्र किमिव स्फटिकमणिमञ्जूषायाममुष्यां संभाव्येत । वणिजः - देव ! नियोगिनो विज्ञपयन्ति कुबेरस्वामिनो धर्मशास्त्रपुस्तिकास्थानमिदमिति । राजा- - पश्यामः पुस्तिकाः । ( वणिज उद्घाट्य दर्शयन्ति । ) राजा - अये ! किमप्यत्र पत्रकमुपरि । (गृहीत्वा वाचयति । ) ५७ "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy