________________
मन्त्रियशपालविरचितं
[तृतीयो राजा--(विमृश्य ) यथा मरणकातरं करुणमारटत्स्वामिना
ऽमुना पशुकुलं कृपाकुलितचेतसा मोचितम् । असावपि तथा पतन् विपदि रक्षितः स्यादिति
ध्रुवं मम मतिर्मृतं धनपतिं न तं मन्यते ॥ ३० ॥ वणिजः-(सहर्षे ) स्वामिन् ! अमोघवचनो भूयाः। राजा-(विष्वग्विलोक्य) अहो! गृहचैत्यचित्रभित्तीनां चेतःकर्षीचारिमा।
वणिजः-देव ! नेमिजिनचरित्रचित्रनिवेशपेशलास्वेतासु भवतः प्रवर्ततामव्याहतो मनोनयनोत्सवः ।
राजा-(निपुणं निरीक्ष्य सोल्लासं) हन्त! कतमस्य भगवतो वीतरागस्य न मधुरगम्भीरोदारपावनमवदातं, तदपि नेमिजिनस्य नूतनी कापि चरित्रसौभाग्यभङ्गिः । तथाोष देवः,
अत्र क्षत्रदशायुती विजितवानत्रातनोदैत्यजि.
चापारोपणमत्र शङ्खनिनदैश्चक्रे च सांराविणम् । अत्रान्दोलितवान् हरि पशुवधव्यासेधमत्र व्यधा
त्सात्रामत्र मुमोच भोजतनयामत्रोजयन्तं ययौ ॥ ३१ ॥ वणिजः-(सशिरःकम्पं ) आश्चर्यमाश्चर्यम्, क्रौर्यैकक्रतुदीक्षिताः क्षितिभुजः कामी ? क धर्मोऽहंतां?
त्रैलोक्याभयसनमेष तमसा मैत्र्यं हि किं भास्वता?। देव ! श्रीजिनशासने तव पुनः श्रद्धारसः कोऽप्यसौ
हेतुर्यः किल धातुवेधविधिना कल्याणसिद्धरभूत् ॥ ३२॥ राजा-हंहो! मा मैवम् । यतः
सर्वस्वं नृपतीनां जिनधर्मः पूर्वपुरुषपरिपाट्या।
तद्रक्षणेषु दक्षाः कोशाध्यक्षाः परं वणिजः ॥ ३३ ॥ वणिजः-(स्वगतं ) अहो ! देवस्य हृदयङ्गमार्थगर्भिणी भणितिभङ्गिः। (प्रकाशं ) देव ! न क्षमते कालातिपातः, तदासनमलतियतां गृहप्राङ्गणे प्रस्तुतप्रयोजनाय ।
"Aho Shrutgyanam"