SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ मन्त्रियशः पालविरचितं कृपासुन्दरी- - (१) मुंच मुंच ममं एदाए बीहेमि बाढं । ( राजा देवीं विलोक्य हस्तं मुञ्चति । ) ( कृपासुन्दरी सोमतया सह निष्क्रान्ता | ) राजा - (स्वगतं ) अहो ! कष्टं कष्टम् । अरण्य इव निपतितोऽहम् । परित्यक्तश्चास्मि प्रियया वयस्येन च । तत्कोऽत्राभ्युपायः ? । भवतु । देवीमेव सान्त्वयामि । ३८ देवी - (ससंरम्भं ) (२) रुद्ददे ! बंधेहि दाव इमं पच्चक्खदिट्ठविप्पियं इमाए हारलदाए जहा ताडेमि इमिणा उप्पलनालेण । राजा - ( समयं देवि ! प्रसीद प्रसीद को नाम निजपरिजने संरम्भप्रकर्ष: ? । देवी- (३) हला रुददे ! अहवा चिट्ठदु दाव इमम्मि बंधणकिलेसो । चत्तमज्जाओ खु एसो । रौद्रता --- (४) जं भट्टिणी आणवेदि । राजा - ( सविनयमञ्जलीं बद्धा ) प्रसीद प्रिये ! प्रणयिषु किमेवमतिपरुषां कुरुषे रुषम् ? | देवी - ( सगद्गदं ) 'प्रिये' इति (५) अन्नत्थ संकलाई एदाई अक्खराई | अपि च संस्कृतमाश्रित्य - अतीववृद्धः शरदभ्रशुभ्र ज्योत्स्नापदेशात्पलितानि बिभ्रत् । राकासुधांशो ! नहि लज्जसे किं क्रीडन् करैः कैरविणीमुखेषु ? ॥ ४९ ॥ राजा - देवि ! त्वमेव मे जीवितं भुवने । यतः - [ द्वितीयो (१) मुश्च मुञ्च मामेतस्या बिभेमि बाढम् । ( २ ) रौद्रते ! बधान तावदिमं प्रत्यक्षदृष्टविप्रियमनया हारलतया । यथा ताडयाम्यनेनोत्प लनालेन । ( ३ ) हला रौद्रते ! अथवा तिष्ठतु तावदस्मिन् बन्धनक्लेशः । त्यक्तमर्यादः खलु एषः । ( ४ ) यद्भट्टिनी आज्ञापयति । 2) ५ ) अन्यत्र संक्रान्तान्येतान्यक्षराणि । " Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy