SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ३९ ऽङ्कः] मोहराजपराजयम् । मणिमुकुटशिखाग्रप्रेङ्खदंशुप्रवाहैः. प्रतिनिहततमिस्त्रैर्येऽभवन् भानुकल्पाः । क्षितिपतिगुणभाजां पश्यतां देवि! तेषां कमलमुखि! भवत्या मालया स्वीकृतोऽहम् ॥ ५० ॥ अथवा किं बहुनोक्तेन ?, प्रसत्तिवात्याहतकोपनीरदो द्भिन्नः प्रसन्नः सितकान्तिरस्त्वसौ । यथास्य कान्त्या कृतपारणाविधिः क्रीडाचकोरस्तव शर्म सेवते ॥५१॥ (इति पादयोः पतितुमिच्छति ।) राज्यश्रीः-(सकोपं ) (१) अरे ! अवरनारिसंगसंभूदं तुहंगगंधं सहिदुं न सक्केमि । ता गमिस्सं । (इति निष्क्रान्ता ।) राजा-कस्कोऽत्र भोः!। (प्रविश्य ) विदूषकः--(२) दिहिया अयालवादोलीए बंभणीपुन्नेहिं न उप्पाडिय नीदु म्हि। राजा-वयस्य ! अतिदूरं कुपिता देवी । तत्क इव प्रसादनोपायः ? । अथवा तिष्ठतु देवी । इदं तु कथय, कास्ते पश्चकलम्बचुम्बितपदन्यासप्रसूतप्रति च्छन्दाम्भोरुहविभ्रमस्फुरदलिव्याख्यातपद्यागतिः । यचक्षुललितैर्जितः किल मृगश्चन्द्रे ध्रुवं तस्थिवान् सा पीयूषतरङ्गिणी मम मनःसोमाश्मनः कौमुदी ? ॥५२॥ (नेपथ्ये) (१) अरे ! अपरनारीसङ्गसंभूतं तवाङ्गन्धं सोढुं न शक्नोमि । ततो गमिष्यामि । (२) दिष्ट्याऽकालवाताल्या ब्राह्मणीपुण्यैर्नोत्पाट्य नीतोऽस्मि । १ B & C प्रतानैरिव रचितदिनेशैयः समं भूषिताशा. २ B & C तुह गंध. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy