SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ૨૮ मन्त्रियशःपालविरचितं [द्वितीयो राजा-(सम्यग् निरूप्य स्वगतं ) अयि! सैव कृपासुन्दरी।यया मम दृष्टिचकोरिकाया निजवदनेन्दुकिरणैः कारितः पारणविधिः । सांप्रतं च 'मधुकरराजविघटितध्यानकलश: इतिवचनेन संभावयति माम् । तदृदय ! विधेहि लास्यम् । भज च प्रमोदसंदोहम् । यतः चेतः! प्ररूढो हृदयालवाले मनोरथः पादपसत्तमो यः। स वल्लभावक्रविलोकनेन प्रकाममिद्धः फलितः फलेन ॥ ३१॥ (पुनः साभिलाषमवलोक्य) अस्याः प्रियाया वदनेन्दुबिम्बे लावण्यपङ्के मम दृष्टिधेनुः । मना तथा भग्नपदेव मन्दा नोत्थातुमीशा क्षणमेकमेषा ॥ ३२ ॥ सोमता--(साक्षेपं ) (१) सहि ! गुरुयणस्स आणाभंगे जं पावं होदि तं कस्स ?। कृपासुन्दरी-(२) सहि ! मज्झ । सोमता-(३) जइ एवं ता झाणकलसेण सेचणयं कुण । (कृपासुन्दरी सभयं हृदि नेत्रे विन्यस्य तरुं प्रति ध्यानं नाटयति ।) राजा-(ससंभ्रमं) कीदृशो ध्यानकलश इति निरीक्ष्य सविषादम्, पुण्यस्त्वमेव तरुवर ! हृद्यस्थं त्वां विलोकते यदियम् । मामेव हि निर्भाग्यं श्वपचमिव स्पृशति नो दृष्टया ॥ ३३ ॥ कृपासुन्दरी--(ध्यानं पारयित्वा) (४) एसो साही अहिसित्तो बहिणि ! झिज्जए कीस ?। सोमता-(विलोक्य स्वगतं ) (५) कहमेयं पुरिसरयणं आहिविडंबिद पिच्छिऊण एवंविहं पियसही जंपदि ? । एयं पुण न संभवदि जदो एसा पुरिसविहेसिणी। तथा च (१) सखि ! गुरुजनस्याज्ञाभङ्गे यत्पापं भवति तत्कस्य ? । (२) सखि ! मम । (३) यद्येवं ततो ध्यानकलशेन सेचनकं कुरु । (४) एष शाखी अभिषिक्तो भगिनि ! क्षीयते कस्मात् । (५) कथमेतं पुरुषरत्नमाधिविडम्बितं प्रेक्ष्य एवंविधं प्रियसखी कथयति ? । एतत्पुनर्न सं. भवति यत एषा पुरुषविद्वेषिणी १B&C एसो उ सा. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy