SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ १४ मन्त्रियशःपालविरचितं [ प्रथमोज्ञानदर्पणः-नहि नहि, अपि तु सदाचारनाम्नः प्राकारस्य मध्यमध्यास्य स्थितः। राजा-आः ! कथं तादृशोऽपि दुर्गाश्रयणमाचरति ? । ज्ञानदर्पण:-असौ हि पुरापि रिपुणा निपुणप्रणीतभेदोपायेन नितान्तं नीतस्तनिमानम् , तेनेदमादृतवान् । राजा–देशकालज्ञस्तर्हि न गर्हामर्हति । ज्ञानदर्पणः-अन्तर्बहिस्थयोश्च बलयोः प्रत्यहं प्रावर्तत घोरः समरसंमर्दः। राजा-ततस्ततः। ज्ञानदर्पणः-अथ तस्याः पुर्याः पर्यन्तवाहिन्यस्ति धर्मचिन्ता नाम महानदी । तां चागत्य वैरिवरूथिनी रुरोध । तवग्रहाच बलवत्यपि पर्याकुलीभूता पुरी। राजा-धिक्, ष्टमापतितम् । ज्ञानदर्पण:-अथ बहुश्रुतैर्गुरुभिः पुरुषैरुदघाट्यन्त सदागमनामानः प्रयत्नपरिपालिता गुप्तकूपाः। तेभ्यः स्वप्रवणश्रवणप्रणालख्यद्वारेणान्तः प्रावेश्यत योगसलिलम् । तेन च पुनः प्रत्युज्जीवितेव प्रजा। राजा-(सहर्ष ) अत एव हि राजकुलेषु गुरुपुरुषपरिग्रहः प्रशस्यते । ज्ञानदर्पणः-विदितश्चायमर्थः परैः। राजा-कथमिव ?। ज्ञानदर्पणः तद्राजधानीजन्मानो मनोभवादयः,ते हि सर्व संविदन्ति। समानशीलतया पुनर्मोहराज प्रपेदिरे । राजा-उपपद्यते तर्हि । ज्ञानदर्पण:-अथ रिपुभिरुपेत्य रजसाच्छादिताः कूपाः । बडाश्चाविनयप्रभृतयो घाः । प्रतिषिद्धाश्च प्रबोधप्रभृतिप्रणिधिसञ्चाराः । पातितानि प्रतिकलं प्राकारे छिद्राणि । अन्तरपि प्रतनूबभूवतुर्यमनियमरूपे यवसेन्धने । १B& C वत्पर्या.. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy