SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ऽङ्कः] मोहराजपराजयम् । दग्धं येन पुरातनं तृणमिवायत्नात्पुराणां त्रयं ___ यस्य प्रज्वलतो नभस्तलमिदं धूम्यायते सर्वतः। यत्र त्रीण्यपि विष्टपान्युपययुः सान्याय्यलेशश्रियं मोहे तत्र जलात्मतां स गतवान् ब्यक्षस्य नेत्रानलः ॥२१॥ अपि च बललीलायितं दृष्ट्वा तस्य मोहमहीपतेः । कान्दिशीको भवत्येव कालिन्दीसोदरः प्रभो! ॥ २२ ॥ अपि च-- अमराः किङ्करायन्ते दासायन्ते च दानवाः । दीनास्तपोधनास्तस्य पुरो वीरशिरोमणेः ॥ २३ ॥ राजा-(सरोमाञ्चं) हृदय ! दिष्टया वर्धामहे संग्राममहोत्सवेन । (इति सरभसमुत्थातुमुत्सहते।) ज्ञानदर्पणः-देव ! मा मैवं वर्णनेयं तस्य नास्ति प्रत्यक्ष प्रतिपक्षः। राजा-( सलज्जं ) ततस्ततः । ज्ञानदर्पणः-एवं च बहून्यपि अहानि स्थित्वा न किञ्चित्तन्मन्त्रमधिगतवानस्मि । राजा-गूढमन्त्रता हि जीवितं राजनीतेः। ज्ञानदर्पणः-अथान्येारकस्मानिर्भरं प्रादुर्बभूव भैरवः सन्नाहभेरीरवः। तदाकर्णनाकुलमिलत्सैनिकचक्रवालश्चचाल कस्याप्यभिमुखं मोहमहीपालः । राजा-(सविस्मयं ) ततस्ततः। ज्ञानदर्पणः-अहमपि कुतूहलात्सहैव चलितवान् । गत्वा चानेन पर्यवेष्टि विवेकचन्द्राह्वयनृपतेर्जनमनोवृत्तिर्नाम राजधानी। राजा-अहह ! निर्व्याजमोजायितं विजिगीषूणाम् । ज्ञानदर्पण:---सहसोपस्थितं च परचक्रमालोक्य पर्याकुलोऽभवत्पौरलोकः। राजा-ततः कच्चिदभ्यमित्रीणतां प्रपन्नो विवेकराजः ? । "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy