SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ मोहराजपराजयम् । राजा-अहो ! महात्मनो मनोवचसोरगोचरः कोऽपि व्यसनोत्करः। ज्ञानदर्पण:-बलववरोधदौस्थ्याच विवेकचन्द्रेण राज्ञा विमर्शप्रमुखैरमात्यैः सह स्थापितः सिद्धान्तः। राजा-किमभ्यमित्रीणतां प्रतिपद्य योद्धव्यमिति ? । ज्ञानदर्पणः-नहि नहि, अपि तु याचितः कालनाम्नो दूतस्य मुखेन धर्मद्वारं मोहराजः। राजा-नीतिरेषा बलीयसा प्रारब्धस्य विदेशो वा तदनु प्रवेशो वेति छयी गतिः । ततः किमनेन प्रपन्नम् ? । ज्ञानदर्पणः-किमन्यद्दत्तमेव धर्मद्वारम् । राजा-तादृशामपि तादृशः क्षत्रधर्मः । ज्ञानदर्पण:-अथैकया शान्तिनाम्न्या देव्या कृपासुन्दरीनाम्न्या च प्राणवल्लभया कन्यया समं नगरीतो निर्गतो विवेकचन्द्रः। राजा-कष्टं भोः ! कष्टम् । अपि च- . अश्रद्धेयमसंभाव्यमचिन्त्यमपि हेलया। नयते प्राञ्जलं वर्त्म देवाय विधये नमः ॥ २४ ॥ ज्ञानदर्पणः-प्रविश्य चाध्यासिता मोहराजेन जनमनोवृत्तिनगरी । राजा-अपि ज्ञायते क स प्राप्तो विवेकराज इति ? । ज्ञानदर्पण:-अतः परं प्रयत्नगवेषिताऽपि न प्राप्ता तत्प्रवृत्तिः। राजा-(सोत्कण्ठं) आः किं भविष्यति कदापि मन:कलापि__ मेघः सुधारसमयः समयः स कोऽपि । यस्मिन् विवेकनृपतिं निजराजधानी मानीय नाम गमयामि पुरा पुरी स्वाम् ॥ २५॥ ज्ञानदर्पणः-देव ! किं न संभाव्यते त्वयि ? । राजा-(स्वगतं ) न जाने कुतोऽपि विवेकनृपतिकुलनभस्तलशशिकलां कृपासुन्दरीमुपश्रुत्यापि किमपि द्रवतीव मे चेतश्चन्द्रकान्तः । अपि च १ A पुस्तके-'अपि च' इति नास्ति । "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy