SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ११६ मन्त्रियशःपालविरचितं [पञ्चमो. राजा-(सकोपं) ज्ञानदर्पण ! त्वया पुनः किमुक्तम् ? । ज्ञानदर्पणः-अवधारयतु देवः । तथा चभूयो भूधर! दैवंतः कथमपि प्राप्यात्मपक्षावली गर्जाडम्बरचुम्बिताम्बरतलं मा सज्जयेत्फालताम् । यस्मात्पश्य पुरः पुरन्दरविभुर्वजातिभीकल्पिता कालाकाशतडित्त्वताण्डवैततौ त्वां होतुमुत्तिष्टते ॥ १९ ॥ राजा-(सहर्ष ) साधु ज्ञानदर्पण ! साधु । निस्तेजितो दुष्टात्माऽन्योक्तिप्रपञ्चेन । ततः किमुक्तं तेन पुरुषापसदेन ? । ज्ञानदर्पणः-साक्षेपं मामुक्तवान् स यत्कि वक्रोक्त्या मामधिक्षिपसि ? । प्रातर्जानासि स्वस्वामिनः पराक्रमम् । एकयाऽप्यविद्यया मथ्यमानस्तव स्वामी कस्य शरणं यास्यति ? । राजा-(साटोपं ) ततः किमुक्तं भवता ?। ज्ञानदर्पणः-आक्षिप्तो वक्रोत्या । तथा चयस्या हन्त ! समुन्नतौ पिबति नो नीरं जनो बालिशो भीत्येव प्रतिशाखिनं खगकुलं बाह्यात्समागच्छति । तां सन्ध्यां प्रतिपद्य दुर्मुखतमो मा वल्ग रे स्वेच्छया यस्मादेष विजृम्भते नभसि ते क्रुद्धः कृतान्तः शशी ॥२०॥ गजा-(सहर्षे) साधु ज्ञानदण ! साधु । वक्रोक्त्या छिन्नस्तस्य मनोरथद्रुमः । ततस्ततः । ज्ञानदर्पणः-पुनराक्षिप्तो मया स मायावी। तो च सैन्यवाजिखुराधातैः ठकारं मा कृथाः क्षितौ । कण्ठे कुरु कुठारं रे ! यदि वाञ्छसि जीवितम् ॥ २१ ॥ राजा-अहह ! प्राणान् पणेविधाय भवतोक्तम् । ज्ञानदर्पणः-( सविनयं) स्वामिकार्यमिदं देव ! प्राणितं भक्तिशालिनाम् । विना तेन न जीवन्ति भुवने नरसत्तमाः ॥ २२ ॥ १ 'देवता.२०वततस्त्वां.३ Aति .४ A निस्तेजो.Cतथा. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy