SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ S:] मोहराजपराजयम् । ११५ प्रतीहारः-देवादेशः प्रमाणम् । ( इति निष्कम्य ज्ञानदर्पणेन सह प्रविश्य च) देव ! अयं ज्ञानदर्पणः। ज्ञानदर्पणः-जयतु जयतु देवः । राजा-(सप्रसादं ) आसनं ज्ञानदर्पणाय। (ज्ञानदर्पण आसने उपविशति ।) राजा-(सौत्सुक्यं ) ज्ञानदर्पण! विज्ञपय यथावृत्तं तस्याविद्यावल्लभस्य। ज्ञानदर्पणः-एष विज्ञपयामि । देव ! इतः स्थानान्मोहराजस्कन्धावारे गतस्य मे निरन्तरं परिभ्रमतां यामिकचक्रवालानां भयेन दुर्लभः प्रवेशः । राजा-एवं भवत्येव विजिगीषुभूपतीनां शिबिरे । ततस्ततः ? । ज्ञानदर्पणः तत् (ततः) देव! मागधवेषं विधाय धवलितकरोऽहं प्रविष्टः स्कन्धावारे ।गतो राजावाससिंहद्वारम् । दृष्टोऽहं प्रतीहारेण । उक्तश्चेति 'कस्मादागतोऽसि । मयां चोक्तं यत् श्रीमन्महाराजेन चौलुक्यकुलावतंसेन कुमारपालदेवेन तव स्वामिप्रोत्साहनाय समादिष्टोऽस्मि मागधराजः। राजा-ततस्ततः । ज्ञानदर्पणः-ततः प्रतीहारेण स्वस्वामिनः समीपे नीत्वा निवेदितः। यत् श्रीकुमारपालदेवेन राज्ञा समादिष्टोऽयं मागधराजः। राजा-ततः किं संवृत्तम् । ज्ञानदर्पणः तस्मिन् क्षणे तस्य मागधराजेन मां निरीक्ष्य कृतोपश्लोकना स्वस्वामिनः। राजा-कीदृशी ?। ज्ञानदर्पण: श्रीव्यामोहमहीशचुम्बितपरन्छावतंसीकृता। हल्याजारशिरस्त्वदीयललितं सर्वैर्नमस्यं यतः। त्यक्त्वा ध्यानरसं निरस्य च तपस्त्वद्वन्धुकामायुध श्रेणीपञ्जरजर्जरः पुररिपुगौंरीमुखं वीक्षते ॥ १८॥ १C मयोक्तं. २ ० यतः. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy