________________
सोपानम् ]
निक्षेपवर्णनम् ।
धर्माप्रसिद्ध्या स्वभावहेतोरप्यभावात् स्वभाव कार्यव्यतिरेकेणान्यस्य साध्यप्रतिबन्धाभावेन लिङ्गस्यासम्भवाच शब्दाकारानुगतत्वन्तु असिद्धत्वान्न पारमार्थिकब्रह्मस्वरूपसाधनायालम् । अभेदेन सङ्केतकरणं शब्दार्थयोस्ताद्रूप्यं ख्यापयतीत्यपि न युक्तम्, अयं घट इत्यनेन घटशब्दस्य घटार्थतायाः घटार्थस्य वा घटशब्दताया अप्रकाशनात्, किन्त्वयं घटशब्दवाच्यः, इत्ययमत्रार्थः प्रकाशयितुमभिप्रेतः, अन्यथा प्रत्यक्षप्रतीतिबाधितार्थप्रकाशकत्वेनेदमुन्मत्त - 5 वचनवदनादरणीयमेव स्यात् । शब्दार्थयोश्च तादात्म्ये क्षुराग्निमोदकादिशब्दोच्चारणे आस्यपाटनदहन पूरणादिप्रसक्तिः, अनवगतसमयस्याभिधानोपलब्धौ तदर्थस्यार्थोपलब्धौ च तद्वाचकस्यावगतिप्रसक्तिच, अन्यथा तादात्म्यायोगात् । न च यो यस्य प्रतिपादकः स तदात्मक इति नियमः, धूमाग्न्यादिभिर्व्यभिचारात् । न च शब्दस्यार्थविशेषणत्वेन प्रतीतेस्तदात्मकत्वम्, देशभेदेन शब्दार्थयोरुपलब्धेः । न च भेदे तस्य तद्व्यवच्छेदकत्वमनुपपन्नम्, 10 काकादेर्भिन्नस्यापि गृहादिकं प्रति व्यवच्छेदकत्वप्रतीतेः । तन्न शुद्धद्रव्यास्तिकाभिमतनानिक्षेप युक्तियुक्त इति भावनिक्षेपप्रतिपादकपर्यांयनयाभिप्रायः ||
अशुद्धद्रव्यास्तिकप्रकृतिव्यवहारनयमतावलम्बिनस्तु मीमांसकाः भिन्नानेव शब्दार्थसम्बन्धानाहुः ' औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध:' [ भीमां० १-१-५] इति वचनात्, औत्पत्तिक इति विरुद्धलक्षणया नित्यस्तैर्व्याख्यातः । सम्बन्धस्य नित्यत्वे च कृतकसम्बन्ध- 15 वादिनो याऽनवस्था प्रसज्यते न साऽस्माकमिति वदन्ति कृतकसम्बन्धपक्षेऽनवस्था च येनावगतसम्बन्धेन अयमित्यादिना शब्देनाप्रसिद्धसम्बन्धस्य घटादेः सम्बन्धः क्रियते तस्यापि यद्यन्येन प्रसिद्धसम्बन्धेन सम्बन्धस्तदा तस्याप्यन्येनेति । भावनिक्षेपवादी पर्यायास्तिक आह एतेऽपि अयुक्तवादिनः, नित्यस्य वस्तुनः शब्दादेः कस्यचिदसम्भवात्, अनवस्थादूषणमपि न युक्तम्, अयमित्यादेः शब्दस्यानादिव्यवहारपरम्परातः सिद्धसम्ब- 20 न्धत्वात् तेनानवगतसम्बन्धस्य घटादिशब्दस्य सङ्केतकरणात् । अकृतकवादिनोऽप्यनवस्था तुल्यैव, तथाहि अनभिव्यक्तसम्बन्धस्याभिव्यक्तसम्बन्धेन शब्देन यदि सम्बन्धाभिव्यक्ति: क्रियते तदा तस्यापि सम्बन्धाभिव्यक्तिरन्यतोऽभिव्यक्तसम्बन्धादिति । यदि तु कस्यचित स्वत एव सम्बन्धाभिव्यक्तिरपरस्यापि तथैवास्त्विति संकेतक्रिया व्यर्थं । शब्दविभागाभ्युपगमे चास्मन्मतानुप्रवेशः प्रदर्शितन्यायेनेति । कृतकत्वेऽपि शब्दस्य यत्र यत्र संकेतद्वारेण 25 शब्दो नियुज्यते तत्र तत्र प्रतिपादकत्वेन प्रवर्त्तत इति द्रव्यसाधर्म्या द्रव्यार्थिकनिक्षेपः शब्द:, तथा द्रव्यार्थताया अपि सर्वत्राभ्युपगमाद्वाच्यवाचकयोर्नित्यत्वात्तत्सम्बन्धस्यापि नित्यता समस्त्येव, सङ्केतश्च तदभिव्यक्तिरिति द्रव्यार्थिक निक्षेपः शब्दः ॥
सङ्केताभिधेयस्यार्थस्य प्रतिकृतिप्रकल्पना स्थापनेति यद्वस्तु सदसद्भूताकारेण स्थाप्यते
3
: {RD :
"Aho Shrutgyanam"