________________
सम्मतितत्त्वसोपाने
[ अष्टादशम् सर्वेषां नीलादीनामेकदेशकालपरिणामादिरूपत्वं एकाकारश्च प्रतिभासः प्राप्नोति, सर्वेषां नीलादीनामेकशब्दब्रह्मरूपाव्यतिरेकात् । जगतो नित्यशब्दस्वरूपत्वे च सर्वदा भावानां शब्देन सह योगपद्यान्नित्यत्वप्राप्त्या परिणामात्मता न स्यात् , तस्माद्भावानां न परिणामकृतं शब्दमयत्वम् । नापि शब्दात्तस्योत्पत्तेः शब्दमयत्वमिति द्वितीयः पक्षो युक्तः, तस्मा5 कार्योदयासम्भवात् , शब्दो हि नित्योऽविकारी च ततः कथं क्रमेण कार्योदयः स्यात् , युग
पञ्च कथं न भवेत्, कारणवैकल्ये हि कार्याणि उदयं प्रति विलम्बन्ते तच्चेत्कारणमविकलं तदा परापेक्षाभावाद्युगपदेव कार्याणि भवेयुः । किञ्च तद्ब्रह्म विवृत्तमर्थरूपेणेत्येतन सिद्धयत् , शब्दब्रह्मण एकस्वभावतया ततो भिन्नभिन्नभावोत्पादाङ्गीकारात्, न ह्यर्था
न्तरस्योत्पादे तत्स्वभावमनासादयतोऽन्यस्य ताप्येण विवत्तों युक्तः तस्मान्न प्रतिज्ञार्थो 10 घटते । एवं शब्दाकारानुस्यूतत्वादिति हेतुरसिद्धः, परमार्थतो भावानामेकरूपानुगमत्वासम्भ
वात् , सर्वे हि भावाः स्वस्वभावेषु व्यवस्थिताः समानजातीयव्यावृत्तस्त्रभावाः, विजातीयव्यावृत्तिकृतमेकाकारानुस्यूतत्वश्चैषां कल्पन या व्यवस्थाप्यते, यथा वस्तुतो भिन्नेषु घटशरावादिषु अमृद्यावृत्तिकृतो मृदात्मा कल्प्यते, नीलादीनामेषाश्च तदपि काल्पनिक
शब्दाकारानुस्यूतत्वं न सम्भवति, नीलपीतादिषु शब्दरूपानुपलम्भेनाशब्दव्यवच्छेदकृत. 15 शब्दाकारानुस्यूतत्वस्य कल्पनाऽसम्भवादिति । ननु ब्रह्मात्मकं तत्त्वं सदाऽविभक्तमेव, न
तस्य परमार्थतः परिणामो येनैकदेशत्वादिदोषो भवेत् , तच्चाविद्योपहतबुद्धयो नीलादिभेदेन विचित्रमिव मन्यन्ते, तथा च न नीलादीनामवस्तुस्वरूपत्वादेकदेशत्वप्रसङ्गो नापि संवेदनस्याभेदप्रसङ्गोऽविद्याविरचितत्वात्तद्भेदस्येति चेन्मैवम् , एवंरूपब्रह्मणः सिद्धौ प्रमाणा
भावात् , प्रमाणाद्धि प्रमेय सत्ताव्यवस्था, तंत्र न प्रत्यक्षतस्तस्य सिद्धिः, नीलादिभिन्नस्या20 न्यस्य ब्रह्मणस्त त्राप्रतिभासनात् । अथ ज्ञानस्वरूपत्वात्स्वसंवेदनाध्यक्षत एव शब्द ब्रह्म सिद्धम् , तदेव ज्योतिः, शब्दात्मकत्वाचैतन्यरूपत्वाच्चैति प्रतिपाद्यते तत्स्वसंवेदनविरुद्धम् , अन्यत्र हि गतचित्तोऽपि रूपं चक्षुषा वीक्षमाणोऽभिलापासंसृष्टमेव नीलादिप्रत्ययमनुभवति । एतेन 'वाग्रूपता चेद्वथुत्क्रामेत्' इति 'न सोऽस्ति प्रत्ययो लोके' इति च प्रत्युक्तम् । तस्माद
विभागं शब्दमयं ब्रह्म न प्रत्यक्षतः सिद्धम् । नाप्यनुमानतः, नित्यस्य क्रमयोगपद्याभ्यां अर्थक्रिया25 विरोधेन तत्कार्यस्यानुपपत्तेः कार्यलिङ्गाभावात् , ब्रह्माख्यधर्मिणोऽसिद्धत्वेन तत्स्वभावभूत
१ न हि शब्दब्रह्मणः सद्भावे प्रमाणं किञ्चिदस्ति, प्रत्यक्षन्तु तत्र न क्रमते सकलदेशकालार्थाकारसमूहव्याप्तस्वरूपस्य ब्रह्मणः कस्यापीन्द्रियजन्यप्रत्यक्षस्थागोचरत्वात् श्रोत्रेन्द्रियं हि शब्दस्वरूपमात्रविषयज्ञानजनकं कथं तादृशब्रह्मविषयप्रत्यक्षं जनयेत् , न वाऽनुमानम् , तत्सद्भावावेदकस्य कस्यचिद्धेतोरसत्वात् शब्दाकारानुस्यूतत्वं हेतुस्तु दुष्ट इत्यादर्शित एवेति भावः ।।
"Aho Shrutgyanam"