SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेश्यपराह्वये ? प्रवाहश्यामदीर्घान सानाकृष्योत्थिता हैत हत इति भाषन्ते स्म । अत्रान्तरे नन्नसूर - गोविन्दाचार्यौ स्वरूपमुद्रे प्रकाश्याहतुःराजन् ! राजन् ! भटा ! भटाः ! शृणुत शृणुत केथायुधमिदम्, न तु साक्षात् । अलं सम्भ्रमेण । इत्युक्त्वा लज्जिता विस्मिताश्च ते राजाद्याः संवृस्याकारमस्थुः । तदा गोविन्दाचार्य- नन्नसूरिभ्यां भूपोऽभाणिकिल शुङ्गारानुभावनो वयमिति तं सम्यग् व्याख्यातुं विद्मः किमु समराजिरमपि भवद्वत्प्रविष्टाः स्मः कुरङ्गा इव शस्त्रे दृष्टेऽपि बिभिमः । आबाल्याद् गृहीतव्रताः पापभीरवः स्मः परं भारती प्रभावप्रभववचनशक्त्या रसान् सर्वान् जीवद्रूपानिव दर्शयामः । राजन् ! 'मोढेर के' यैस्ते वात्स्यायनभावा व्याख्यातास्ते वयं नन्नसूरय १० इमे च गोविन्दाचार्य: । भवतां तदा मृषा विकल्पः समजनि । राजा सद्यो ललजे । तौ सूरी क्षमयामास आनच बप्पभट्टि च । तौ कतिचिद् दिनानि उपराजं स्थित्वा बप्पभट्टेरनुज्ञया पुन 'मोंढेर 'पुरमगाताम् । गतः समयः कियानपि । अन्यदा गाथकवृन्दमागतम् । तन्मध्ये बालिका तेमालनीलो- १५ त्पललोचना मृगाङ्कमुखी किन्नरस्वरा विदुषी गायति । तां दृष्ट्वा मैदनशरज्वरजर्जरो गलितविवेको गतप्रायशौचधर्माभिनिवेश: 'कन्यकुब्जे 'शः पचद्वयं प्रभुप्रत्यक्षमपाठीत् वक्त्रं पूर्णशशी सुधाधरलता दन्ता मणिश्रेणयः कान्तिः श्रीर्गमनं गजः परिमलस्ते पारिजातद्रुमाः । वाणी कामदुघा कटाक्षलहरी सा कालकूटच्छटा तत् किं चन्द्रमुखि ! त्वदर्थममरैरामन्थि दुग्धोदधिः ॥ १ ॥ * जन्मस्थानं न खलु विमलं वर्णनीयो न वर्णो दूरे शोभा वपुषि निहिता पङ्कशङ्कां तनोति । २० १ घ- 'हनइनेति' । २ ग 'कचायुद्धमिदं' । ३ क- 'प्रतिष्ठाः' । ४ क-ख'निन्दा' । ५ ख - ध- 'सनालनीलो ०' । ६ ग 'मदनज्वर' । ७ शार्दूल० ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy