SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिमबन्धे विश्वप्राः सकलसुर मिर्दव्यदर्पापहारी नो जानीमः परिमलगुणः कस्तु कस्तूरिकायाः ॥२॥ सूरिभिश्विन्तितम् - अहो महतामपि कीदृग् मतिविपर्यासः । । reat are भूरिरन्ध्रविगलत्तत्तन्मलक्लेदिनी सा संस्कारशतैः क्षणार्धमधुरां बाह्यामुपैति द्युतिम् । अन्तस्तत्त्व रसोर्मिंघौतमतयोऽप्येतां नु कान्ताधिया श्लिष्यन्ति स्तुवते नमन्ति च पुरः कस्यात्र पूत्कुर्महे ? ॥३॥ ' उत्थिता सभा । त्रिभिर्दिनैर्भूपॆन पूर्बहिः सौधं कारितम्, मातङ्गीसहितोऽत्र वत्स्यामीति धिया । तदवगतं श्रीबप्पभट्टिसूरिभिः । १० ध्यानप्रत्यक्षं हि तेषां जगद्वृत्तम् । ततो माऽसौ नरकं यासीदिति कृपया तैर्निष्पाद्यमान सौधभारपट्टे निशि खटिकया बोधदानि पश्चानि लिखितानि । यथा ---- ८० शैत्यं नाम गुणस्तवैव तदनु स्वाभाविकी स्वच्छता किं ब्रूमः शुचितां भजन्त्य शुचयस्त्वत्सङ्गतोऽन्ये यतः । १५ " किञ्चातः परमस्ति ते स्तुतिपदं एवं जीवितं देहिनां त्वं चेन्नीचपथेन गच्छसि पयः ! कस्त्वां निरोद्धुं क्षमः ? || १ || सद्वृत्त सद्गुणमहार्ह महार्घकान्त २० कान्ताघनस्तनतटोचितचारुमूर्ते ! | [ ९ श्रीबप्पमट्टिसूरि आः पामरीकठिनकण्ठविलग्नभग्न ! हा हार ! हारितमहो भवता गुणित्वम् ॥२॥ 'जीयं जलबिंदु समं, संपत्तीओ तरंगलोलाओ । सुमिणयसमं च पिम्मं, जं जाणसि तं करिज्जासि ॥ ३ ॥ ९ १ घ - ' कायाम् ' । २ खग्धरा । ३ शार्दूल० । ४ घ - कारापितम् । ५ क - 'नरकमया०' । ६ ग - ' किंवाऽतः ' । ७ शार्दूल० । ८ वसन्त० । ९ छाया - जीवितं जलबिन्दुसमं सम्पत्तयस्तरङ्गलोलाः । स्वमसमं च प्रेम यज्जानासि तत् कुर्याः । १० आर्या ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy