SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्धे [ ९ श्रीबप्पमट्टिसूरि. तदा ननसूरिाख्यानेऽवसरायातान् वात्स्यायनोक्तान् कामाङ्गभावान् पल्लवयन्नासीत् । राज्ञा श्रुतं तत् सर्वम् । अरुचिरुत्पन्ना । अहो वयं कामिनोऽपि नैतान् भावान् विद्मः; अयं तु वेत्ति सम्यक्; तस्मादवश्यं नित्यं योषित्सङ्गी, किमस्य प्रणामेन ? । इत्यकृतनतिरेवोत्थायाशु 'गोपगिरि मागात् । चिराद् दृष्टः क्षमाप इति रणरणकाक्रान्तस्वान्ताः प्रभवो वन्दापयितुमैयरुः । राजा निरादरो न वन्दते तथा । एवं दिनानि कतिपयानि गतानि । एकदा गुरुभिः पप्रच्छे- राजन्! यथा पुरा भक्तोऽभूस्तथेदानी भक्तो नासि । किमस्माकं दोषः कोपि ? । राजा स्माह-सूरिवर ! १० भवादृशा अपि कुपात्रश्लाघां कुर्वते, किमुच्यते ? । सूरिभिरूच कथम् ? । आमः प्राह-यो भवद्भिः त्वौ गुरुबान्धवा स्तुतौ तत्र गत्या एको ननसूरिनामा दृष्टः शृङ्गारकथाव्याख्यानलम्पटस्तपोहीनो लोहतरण्डतुल्यो मज्जति मज्जयति च भवाम्बुधौ । तस्मान्न किञ्चिदेतत् । सूरयो मसिमालनवदनाः स्ववसतिमगुः । तत्रोप१५ विश्य द्वौ साधू 'मोढेरक'पुरं प्रहितौ । तत्पार्थात् तत्र कथापितम् आमोऽकृतप्रणामो भवत्पा दागतः । एवमेवं युवां निन्दति । तत् कर्तव्यं येनासौ भवत्स्यन्येष्वपि श्रमणेषु अवज्ञावान् न भवति । सर्वं तत्रत्यं ज्ञात्वा तौ द्वावपि गुटिकया वर्णस्वरपरावर्त कृत्वा नटवेषधरौ 'गोपांगरि'मीयतुः । श्रीवृषभध्वजचरित्रं नाटकत्वेन २० बबन्धतुः । नटान् शिक्षयामासतुः । आमराजमवसरं यया चतुः । राज्ञाऽवसरो दत्तः । मिलिताः सामाजिकाः तत्तद्रसभावज्ञाः । ताभ्यां नाटकं दर्शयितुमारेभे । भरत-बाहुबलिसमावसरोऽभिनीयते । यदा व्यूहरचना-शस्त्ररणरणत्कारवारवर्णना-भट्टकोला हलाश्चोत्थापनघर्धरिका-झणझणत्कारादि ताभ्यां वर्णयितुमारब्धम्, २५ धारारूढश्च रसोऽवातारीत् तदा श्रआिमस्तद्भटाश्च 'कालिन्दी' १ ख-ख्यानावसरा.' । २ क-पप्रच्छते'। ३ ख--'सूरिरूच'। घ-'भवेत् । ५ इदं नाटकं न दृष्टं मया। ६ ग-शस्त्रझलत्कार' । . ख-'हलात्थापन' । ८ग-ऋणऋणत्कारादि ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy