SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ R प्रबन्धः] प्रबन्धकोशेल्यपराये एकदा 'लक्षणावत्यां' बौद्धो वर्धनकुञ्जरो धर्मनृपमाह सगद्गदम्- अहं बप्पभट्टिना जितस्तन्मे न दूषणम् । बप्पभट्टिर्हि भारती नररूपा, प्रज्ञामयः पिण्डः, गीपुत्रः , न च दुनोति । एतत् तु दुनोति यत् तव भृत्येनापि वापतिराजेन सूरिकृतभेदान्मम मुखशौचोपायेन गुटी हारयामहे । एतावदभिधाय स ५ तारं तारं रुरेद । स निवारितः क्षमापेन रोदनात् । उक्तश्च-किं क्रियते ! । अयं नश्चिरसेवकोऽनेकसमराङ्गणलब्धजयप्रतिष्ठः प्रबन्धकविः पराभवितुं न रोचते । क्षमस्वेदमस्यागः । ततो बौद्धो जोप स्थितः । अपरेयुर्यशोधर्मनाम्ना समीपदेशस्थेन बलवता भूपेन 'लक्षणायनी'मेत्य रणे धर्मनृपो व्यापादितः । १० राज्यं जगृहे । वाक्पतिरपि बन्दीकृतः। तेन कारास्थेन 'गौडवध'सञ्ज्ञकं प्राकृतं महाकाव्यं रचयित्वा यशोधर्माय राजेन्द्राय दर्शितम् । तेन गुणविशेषविदा ससत्कारं बन्देर्मुक्तः क्षभितश्च । "विद्वान् सर्वत्र पूज्यते” । ततो वापतिर्बप्पभट्टेः समीपं गतः । द्वयोस्तयोमैत्री पूर्वमप्यासीत् , तदानी विशेषतोऽवृधत् । १५ तेन वाक्पतिना 'महामहविजयाख्यं प्राकृतं महाकाव्यं बद्धम् । आमाय दर्शितम् । आमो हेमटङ्ककलक्ष्यमस्मै व्यशिश्नणत् । कियती पञ्च सहस्री, कियती लक्ष्या च कोटिरपि ? । औदार्यान्नतमनसा, रत्नवती वसुमती कियती ? ॥ १॥ अपरेयुः प्रभुः श्रीआमेन पृष्टः- भगवन् ! यूथं तावत् तपसा २० विद्यया च लोके लब्धपरमरेखाः । किमन्यः कोऽपि क्याप्यस्ते यो भवत्तुलालेशमवाप्नोति ? । बम भट्टिरमाणीत-अवनिपते! मम गुरुवान्धवौ गोविन्दाचार्य-ननसूरी सर्वैर्गुणैर्मदधिको 'गूर्जर'धरायां 'मोढेरक' पुरे स्तः । गुणोत्कण्ठयाऽमितसैन्य आमस्तत्र गतः । १ ख. 'इसरेधु०' । २ ग-'राझे' । ३ घ-महमहर्वि' । पथमागतम् । ५ आर्या । म चेदं मे दृष्टि.
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy