SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धक शेत्यपराह्नये तत् तु सूरीणां पुरः समस्यात्वेन समर्पितवान् । सूरय ऊचु:--- 'इत्थ घरे इलियडू ईंद्दह मित्तत्थणी वैसइ ॥ १ ॥ राजा विस्मितः । अहो सारं सारस्वतम् ! | अन्यदा सायं प्रोषितभर्तृकां वासभवनं यान्तीं वक्रग्रीवां दीपकरां ददर्श । गाथार्द्ध चोच्चैः सूर्यग्रे पपाठ -- 'दिउझ करगीवा- -इ दीवओ पहियजायाए । सूरिगीथा पूर्वार्द्धमुवाच ---- पियसंभरणपलुट्टे - तअंसुधारानिवाय भीयाए ॥ १ ॥ इति । सूरि-भूपौ सुखेन कालं गमयतो धर्मपरौ । अन्यदा धर्मनृपेण आमनृपस्य पार्श्वे दूतः प्रहितः । एत्या. १० वोच्चत् — राजन् ! तब त्रिचक्षणतया धर्मनृपः सन्तुष्टः । पुनः स आह— भवद्भिर्वयं छलिताः । यतो भवद्भ्यो गृहमागतेभ्यो नास्माभिर्महानल्पोऽपि कोऽपि सत्कारः कृतः । अधुना शृणु -- अस्मद्राज्ये वर्धनकुञ्जरो नाम महावादी बौद्धदर्शनी विदेशादागतोऽस्ति । स वादं जिघृक्षुः । यः कोऽपि वो राज्ये वादी भवति १५ स आनीयताम् । अस्माकं भवद्भिः सह चिरन्तनं वैरम् । यः कोऽपि वादी विजयी भविष्यति तत्प्रभुरपरस्य राज्यं ग्रहिष्यति । मम वादिना यदा जितं तदा त्वदीयं राज्यं मया ग्राह्यम् । यदा तव वादिना जितं तदा मदीयं राज्यं त्वया ग्राह्यम् । अयं पणः । वाग्युद्धमेवास्तु । किं मानवकदर्थनेन । आमेनोक्तम्- - दूत ! २० त्वया यदुक्तं तद् धर्मेण कथापितमथवा त्वया स्वतुण्डकण्डूतिमात्रे १ छाया - अत्र गृहे हालिकषधूरे तावन्मात्रस्तना वसति । २ घ - 'इद्दहमिहळणी' । ३ ग 'अस्थि' । ४ आर्या । ५ ख - 'भुवनं ' | ६-७ छाया--- दृश्यते वक्रप्रीवया दीपकः पथिकजायया । प्रियस्मरण प्रलुठदश्रुधाराभिपात भीत्या ॥ ८ आर्या । ९ ख - 'यदि' | चतुर्विंशति ० ० १०
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy