SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रवन्धे [९] श्रीवष्यमहिंसूरि 'नख-दन्तक्षतादिविष्ठासारले सर्वे आजन्मशिक्षितास्तत्र प्रयुक्ताः । पुनस्तिलतुषत्रिभागमात्रमपि मनोऽस्य नाचालीत् । अनुराग बलात्कारपूत्कार - भीदर्शन - हन्यादानादिविभीषिकाभिरपि नाक्षुभत् । तदेष मन्ये महात्रजमयो न देवकन्याभिर्न विद्याधरीभिर्न नागाङ्गनाभि५ चाल्यते; मानुषीणां तु का कथा । अस्मिन् सूरेर्धर्मस्थैर्ये श्रुते नृपो विस्मयानन्दाभ्यां कन्दम्बमुकुलस्थूलरोमाञ्चकञ्चुकितगात्रः संवृत्तः । दध्यौ च गुरुं ध्यानप्रत्यक्षं कृत्वा -- 3 न्युञ्छने यामि वाक्यानां दृशोर्याम्यवतारणे । बलिः क्रियेऽहं सौहार्द - हृद्याय हृदयाय ते ॥१॥ १० प्रातर्गुरवः समागुः । राजा हीणो न वदति किञ्चित् । सूरिभि - भणितम् - राजन् ! मा लज्जिष्ठा; महर्षीणां दूषणभूषणान्वेषणं राज्ञा कार्यम्, न दोषः । राज्ञेोक्तम्- अलमतीतवृत्तान्तचर्चया । एतदहमुसम्मितभुजो ब्रुवे युष्मान् ब्रह्मघनानवलोक्य धन्यास्त एव यतलोचनानां १५ तारुण्यदर्पधनपीनपयोधराणाम् । क्षामोदरो परिलसत्रिवली लतानां दृष्ट्वाऽकृति विकृतिमेति मनो न येषाम् ॥ १ ॥ इत्युक्त्वा दण्डप्रणामेन प्रणनाम श्रीआमः । अन्येद्यू राजा राजपथेन सँश्वरमाणो हालिकप्रियां एरण्डबृहत्पत्र२० संवृतस्तनविस्तरां एरण्डपत्राणि विचिन्वानां गृहपाश्चात्यभागे दृष्ट्वा गाथार्द्ध योजितवान्- 'व ( त ?) ३ वि वरनिग्गयदलो एरंडो सोहइ व्व तरुणाणं । 2 १ ख- 'नखर दन्ताक्षता • । २ क- 'क्रयेऽहं' । अनुष्टुप् । खणो' । ५ क- 'तरलायत०' | ६ वसन्त० । ७ग 'सन्तरमाणो' । ८ छाया - तथापि वरनिर्गतवल एरण्डः शोभत एव तरूणाए ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy