SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ चतुर्विंतिप्रबन्धे [९ श्रीबप्पभट्टिसरिणोक्तम् ?। यदि तब प्रभुः सप्ताङ्गं राज्यं वादे जिते समर्पयिष्यति मै इति सत्यं तदा वयं वादिनमादायागच्छामः । दूतेनोक्तम्कारणवशाद् युधिष्ठिरेणापि 'द्रोण' पर्वण्यसत्यं भाषितम् ; मत्प्रभुस्तु कारणेऽपि न मिथ्या भाषते । आमेन दूतः प्रैषि । उक्तदिनोपरि चं बप्पभाट्टि गृहीत्वाऽर्द्धपथे उक्तस्थाने आमोऽगमत् । धर्मभूपतिरपि वर्धनकुञ्जरं वादीन्द्रमादाय तेत्राजगाम । 'परमार'वश्यं नरेन्द्रं महाकवि वाक्पतिनामानं स्वसेवकं सहादाय "समाययो । उचितप्रदेशे आवासान् दापयामास । तो वादि-प्रतिवादिनौ पक्षप्रतिपक्षपरिग्रहेण वादमारेभेते । सभ्याः कौतुकाक्षिप्ताः पश्यन्ति । द्वावग्यसामान्यप्रतिभौ । वादे षण्मासा गताः । द्वयोः कोऽपि न हारयति, न जयति ! आमेन सूरयः प्रोक्ताः सायम्-- राजकार्याणां प्रत्यूहः स्यात्, निर्जीयतामसौ शीघ्रम् । सृरिणा भणितम्- प्रातर्निग्रहीष्यामि, मा स्म वो भ्रान्तिर्भूयात् । रात्रौ सूरीश्वरेण मन्त्रशक्त्या मण्डले हाराहारमणिकुण्डल१५ मण्डिताङ्गी दिव्याऽङ्गरागवसना दिव्यकुसुमपरिमल बासितभुवनोदरा भगवती भारती साक्षादानीता । चतुर्दशभिः काव्यैः सद्यस्कैदिव्यैः स्तुता । देव्योक्तम्--वत्स ! केन कारणेन स्मृता ? । सूरिवीरेण भणितम्--पण्मासा वादे लग्नाः; तथा कुरु यथा मादे निरुत्तरीभवति सः । देव्या गदितम्---वत्स ! अहमनेन २० प्राक् सप्तभवानाराधिता । मयाऽत्र भवेऽस्मै अक्षयवचना गुटिका दत्ताऽस्ति । तत्प्रभावाच्चक्रिनिधिधनमिव नास्य वचो हीयते । सूरिणोक्तम्-~-त्वं देवि ! किं जैनशासनविरोधिनी येन मे जयश्रियं न दत्से ? । भारती ऊचे-वत्स ! जयोपायं ब्रुवे, त्वया वादारम्भे प्रातः सर्वे बदनशौचं काराप्याः पार्षद्याः । गण्डूषं . -...---- ---...- --.-.. --....-. -- , “स्वाम्य-अमात्य-सुहृत् कोश-राष्ट्र-दुर्ग-बलानि च" इत्यमरकोशे। २ ग'गच्छाम इति'। ३ क-'भा च'। 'घ'आमो [अन]गतः'। ५ घ-तत्र जगाम'। ६ स्त्र- वंश'। ७ क--ख-घ--'समानिन्ये । ८ घ-'प्रभाते नि०। ९ घ-'लुलितभुव ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy