SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराइये ng दुर्लभः । आमो राजाऽमूल्यं कङ्कणं ग्रहणके मुक्त्वा वेश्यागृहे उति आसीत् । सा तु 'लक्षणावती' पतेर्वारस्त्री । एकं कङ्कणं आमो राजद्वारे मुञ्चन्नगात् । अपराड़े राज्ञः पार्श्वाद् बप्पभट्टि - । सूरिभिर्मुत्कलापितम् — देव ! 'गोपगिरौ' आमपार्श्व यामः, अनुज्ञा दीयताम् । धर्मेण भणितम् — भवतामपि वाणी विघटते ? भवद्भिर्भणितमभूत् यदा तब दृष्टौ आमः समेत्यास्मानादयति तदा यामः, नार्वाक् ; तत् किं विस्मृतम् ? जिह्वे किं वो द्वे स्तः १ । आचार्या जगदुः -- श्रीधर्मदेव ! मम प्रतिज्ञा पूर्णा । राजाऽऽह — कथम् ? । सूरिर्वदति-- 'आमराजोऽत्र स्वयमागतस्तव दृष्टौ ? | राजाऽऽह -- कथं ज्ञायते ? | सूरिः यदा भवद्भिः १ पृष्टं भवतां स्वामी कीदृशः विशिष्टैस्तदा भणितम् - स्थगिकाधररूपः, तथा, ' बीजउरा ' शब्दोऽपि विमृश्यताम् । ' दोरों 'शब्दोऽपि यो मयोक्तोऽभूत् । तस्मात् प्रतिज्ञा पूर्णा मे । अत्रान्तरे केनापि राजद्वाराद् आमकङ्कणं धर्मनृपहस्ते दत्तं आमनामाङ्कितम् । द्वितीयं वैश्यया दत्तम् । तद् दृष्ट्वा नष्टसर्वख १५ स्तद्धन इव धर्मः शुशोच - धिग् मां यन्मया शत्रुः खगृहमायातो नार्चितः न च साधितः । धर्मेण मुत्कलिताः सूरयः पुरः कापि स्थितेनामेन सह जग्मुः । मार्गे गच्छता आमेन पुछिन्द एको जलाशयमध्ये जलं छगलवन्मुखेन पिबन् दृष्टः । आमराजेन सूरीणाम एत्योक्तम्--- २० * पसु जेम पुलिंद पर पियइ "पंथिअ कवणिण कारणिण ! सूरिभिरभाणि - कर वे वि करंबिय कज्जलिणमुद्वह अंसुनिवारणिण ॥ १॥ १ ग 'आमो राजाऽत्र । २ ' दो शब्दोऽपि विमृश्यताम्' इत्यधिकः ख- पाठः । ३ ग --' नृपधर्महस्ते ' । ● छापा - पशुरिव पुलिन्दः पयः पिबति पथिकः केनापि कारणेण । ५ ग - 'पंथिय । ६ छाया---- करौ द्वावपि करम्बितौ कज्जलेन उद्वहृदश्रुनिवारयतः ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy