SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्धे ९ भीषष्पष्टिमूरिअनेकयोनिसम्पाता-ऽनन्तबाधाविधायिनी। अभिमानफलैयेयं, राज्यश्रीः साऽपि नश्वरी ॥ १ ॥ ततो राज्ञाऽसौ तुङ्गधवलगृहे स्थापितः । प्रातः सभामागताय बप्पभट्टये नृपेण सिंहासनं मण्डापितम् । तेन गदितम्उर्वीपते ! आचार्यपदं विना सिंहासनं न युक्तम् । गुर्वाशातना भवेत् । ततो राज्ञा बप्पभट्टिः प्रधानसचिवैः सह गुर्वन्तिके प्रहितः। विज्ञप्तिका च दत्ता--यदि मम प्राणैः कार्य तदा प्रसद्य सद्योऽयं महर्षिः सूरिपदे स्थाप्यः । ' योग्यं सुतं च शिष्यं च, नयन्ति गुरवः श्रियम् ।' स्थापितमात्रश्चात्र शीघ्रं प्रेषणीयः । १० अन्यथाऽहं न भवामि । मा विलम्ब्यतामिति । अखण्डप्रयोग र्मोढेरकं प्राप्तो बप्पट्टिः । सचिवैः सूरयो विज्ञप्ताः- प्रभो ! राजविज्ञप्त्यर्थोऽनुसार्यः; उचितज्ञा हि भवादृशाः । अथ श्रीसिद्धसेनाचार्यैर्बप्पभट्टिः सूरिपदे स्थापितः । तदङ्गे श्रीः साक्षादिव सामन्ती छ । रहश्च शिक्षा दत्ता--- वत्स ! १५ तव राजसत्कारो भृशं भावी । ततश्च लक्ष्मीः प्रवर्त्यति । तत इन्द्रियजयो दुष्करः । त्वं महाब्रह्मचारी भवेः । ""विकारहेतौ सलि विक्रियन्ते, येषां न चेतांसि त एव धीराः" अनेन महाव्रतेन महत्तरः स्फुरिष्यसि । एकादशाधिके तत्र, जाते वर्षशताष्टके । विक्रमात् सोऽभवत् सूरिः, कृष्णचैत्राष्टमादिने ११॥ गुरुणा आमराजसमीपे प्रेषितः । तत्र प्राप्त: । 'गोपगिरेः' प्रासुकवनोद्देशे स्थितः । राजा अभ्यागत्य महामहेन तं पुरी प्रावीविशत् । श्रीबप्पभट्टिसूरिणा तत्र देशना क्लेशनाशिनी दत्ता-- श्रीरियं प्रायशः पुंसा-मुपस्कारैककारणम् । २५ तामुपस्कुर्वते ये तु, रत्नसूस्तैरसौ रसा ॥ १॥ कुमारसम्भवे (स. १, १ अनुष्टुप् । २ ग-याणकौमोंढरेक' । ३ क-'भव' । श्लो. ५९)। ५ ग-वीराः । ६-७ अनुष्टुप् ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy