SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे नीयते । राज्ञा सा स्वसौधमानाथिता सपुत्रा गौरषिता च । अम्पदा विहरतो वयं तस्या देशं गताः ! तया पूर्वप्रतिपन्नं स्मरन्स्या वयं वन्दिताः पूजिताः । अनेन आमनाना तत्सुतेन भाव्यम् । एवं चिरं विभाव्य सूरयस्तमूचुः- वत्स ! बस मिश्रिन्तो निजेन सुहृदा बप्पभट्टिनाम्ना सममस्मत्सन्निधौ । स्व गृहाण कलाः । कास्ताः - - - लिखितम् १ गणितम् २ गीतम् ३ नृत्यम् ४ वाद्यम् ५ पठितम् ६ व्याकरणम् ७ छन्दो ८ ज्योतिषम् ९ शिक्षा १० निरुक्तम् ११ काल्यायनम् १२ निघण्टुः १३ पत्रच्छेयम् १४ नखच्छेयम् १५ रत्नपरीक्षा १६ १० आयुधाभ्यासः १७ गजारोहणम् १८ तुरगारोहणम् १९ तयेोः शिक्षा २० मन्त्रवादः २१ यन्त्रवादः २२ रसवादः २३ खन्य• वादः २४ रसायनम् २५ विज्ञानम् २६ तर्कवादः २७ सिचान्तः २८ विषवादः २९ गारुडम् ३० शाकुनम् ३१ वैद्यकम् ३२ आचार्यविया ३३ आगमः ३४ प्रासादलक्षणम् १५ ३५ सामुद्रिकम् ३६ स्मृतिः ३७ पुराणम् ३८ इतिहासः ३९ वेदः ४० विधिः ४१ विधानुवादः ४२ दर्शन संस्कारः ४३ खेचरीकला ४४ अमरीकला ४५ इन्द्रजालम् ४६ पातालसिद्धिः ४७ धूर्तम्बलम् ४८ गन्धवादः ४९ वृक्षचिकित्सा ५० कृत्रिममणिकर्म ५१ सर्वकरणी ५२ वैश्यकर्म ५३ पणकर्म २० ५४ चित्रकर्म ५५ काष्ठघटनम् ५६ पाषाणकर्म ५७ लेपकर्म ५८ चर्मकर्म ५९ यन्त्रकरसवती ६० काव्यम् ६१ अलङ्कारः ६२ हसितम् ६३ संस्कृतम् ६४ प्राकृतम् ६५ पैशाचिकम् ६६ अपभ्रंशम् ६७ कपटम् ६८ देशभाषा ६९ धातुकर्म ७० प्रयोगोपीयः ७१ केवलीविधिः ७२ । एताः सकलाः कलाः २५ शिक्षितवान् । लक्षण- तर्कादिग्रन्थान् परिचितवान् । बप्पभट्टिना ૫. [ ९ श्रीबप्पमट्टिसूरि ――― १ ग - 'भ्यासम् । २ घ 'शम्बल' ३ ख 'दशाकर्म' ४ - प्रतौ एषा कला " नोलिखिता । ५ ग -' पायम् । ६ घ - केवली ७१ विधिः ७२ ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy