SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्धे [७ श्रीमल्लवादि तद्विरा खिद्यमानोऽभः, पप्रच्छ जननी निजाम् । किं मातर्नास्ति मे तातो, येन लोकोक्तिरीदृशी ? ॥ १२ ॥ माता जगाद नो वेभि, किं पीडयसि पृच्छया ? ततः खिन्नः स सत्त्वाख्यो, मर्तुमैच्छद् विषादिभिः ॥ १३ ॥ साक्षादागरय तं भानु-रूचेऽहं वत्स ! ते पिता । पराभवकरो यस्ते, तस्याहं प्राणहारकः ॥ १४ ॥ इत्युक्त्वा कर्कर सूक्ष्म-मेकं तस्य समार्पयत् । ताड्याउनेन त्वया द्वषी, सद्यो मर्तेति चादिशत् ॥ १५ ॥ तेन कर्करशस्त्रेण, बालः स बलवत्तरः । विब्रुवन्तं विब्रुवन्त-मवधील्लेखशालिकम् ॥ १६ ॥ 'वलभी'पुरभूपेन, श्रुतो बालवधः स तु । कुपितस्तं शिशु सद्यो, जनैः स्वान्तिकमानयत् ॥ १७ ॥ उक्तश्च रे कथं हंसि, नृशंस ! शिशुकानमून् ? । बालः प्रत्याह न परं, बालान् हन्मि नृपानपि ॥ १८ ॥ इत्थं वदन् महीपाल-महन् कर्करकेण तम् । मृतस्य तस्य साम्राज्ये, स राजाऽजनि विक्रमी ॥ १९ ॥ शिलादित्य इति ख्यातः, 'सुराष्ट्रा'राष्ट्रभास्करः । लेभे सूर्याद् वरं वाह', परचक्रोपमर्दकम् ॥ २० ॥ निजां स्वसारं स ददौ, 'भृगुक्षेत्र'महीमुजे । असूत सा सुतं दिव्य-तेजसं दिव्यलक्षणम् ॥ २१ ॥ 'शत्रुञ्जये' गिरौ चैत्यो--द्धारमारचयच्च सः । श्रेणिकादिश्रावकाणां, श्रेणावात्मानमानयत् ॥ २२ ॥ कदाचिदागतास्लत्र, बौद्धास्तर्कमदोद्धराः । ते शिलादित्यमगदन् , सन्ति श्वेताम्बरा इमे ॥ २३ ॥ ३ घ..'शाल कम्' । . मुद्गरम् । २ ख- सदा छैषी सद्यो मत्यति'। क-ख-'बाद।५ अश्वम् ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy