SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ प्रबन्धकोशेत्यपराये वादे जयन्ति यद्यस्मा - स्तदैते सन्तु नीवृति । वयं यदि जयामोऽमूं- स्तदा गन्तव्यमेतकैः ॥ २४॥ दैवयोगाज्जितं बौद्धैः सर्वे श्वेताम्बराः पुनः । " प्रबन्धः ] } विदेशमाशिश्रियिरे, पुनः कालबलार्थिनः ॥ २५ ॥ शिलादित्यनृपो बौद्धान् प्रपूजयति भक्तितः । 'शत्रुञ्जये' च ऋषभ -स्तैर्बुद्धीकृत्य पूजितः ॥ २६ ॥ इतश्च सा शिलादित्य-भगिनी भर्तृमृत्युतः । विरक्ता व्रतमादत्त, सुस्थिताचार्यसन्निधौ ॥ २७ ॥ अष्टवर्ष निजं बाल-मपि व्रतमजिग्रहत् । , सामाचारीमपि प्राज्ञं, किञ्चित् किञ्चिदजिज्ञपत् ॥ २८ ॥ १० एकदा मातरं साध्वीं, सोऽपृच्छद भिमानवान् । अल्पः कथं नः सङ्घोऽयं, प्रागप्यर पोऽभवत् कथम् ? ॥२९॥ साप्युदर भाषिष्ट, वत्स ! किं वच्मि पापिनी । श्रीश्वताम्बरसोऽभूद् भूयानपि पुरे पुरे ॥ ३० ॥ तादृक् प्रभावनावीर - सूरीन्द्राभावतः परैः । स्वसात्कृतः शिलादित्यो, भूपालो मातुलस्तव ॥ ३१ ॥ तीर्थ 'शत्रुञ्जया' हं यद्, विदितं मोक्षकारणम् । श्वेताम्बराभावतस्तद्, बौद्धैर्मूतैरिवाश्रितम् ॥ ३२ ॥ विदेशवासिनः श्वेताम्बराः खण्डितडम्बराः । क्षिपन्ति निहितौजस्काः, कालं कचम केचन ॥ ३३ ॥ इति श्रुत्वाऽकुपद् बाल - स्तोथागतभटान् प्रति । प्रतिज्ञां च चकारोचैः प्रावृडम्भोधरध्वनिः ॥ ३४ ॥ नोन्मूल्यामि चेद् बौद्धान्, नदीरय इव द्रुमान् । तदा भवामि सर्वज्ञ - ध्वंसपातकभाजनम् ॥ ३५ ॥ " ४५ १ देशे । २ क- ' शत्रुञ्जयेऽस्ति' । ३ साधूनामाचारम् । ५ क ख - ' खण्डितडम्बरैः । ६ बौद्धवीरान् । १५ २० • आत्मवशीकृतः ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy